पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
काव्यमाला ।

दिक्षु कालागरुस्यन्दनीलैस्तिमिरसंचयैः ।
अभिसारोचितं वेषमाश्रितास्विव तत्क्षणात् । १९८॥
उदिते पूर्वदिक्कान्तासीमन्तमणिमौक्तिके।
शशाके शंकरस्क्लृप्तकामसंजीवनौषधम् ॥ ४९९ ।।
ज्योत्साविलासविलसत्प्रभाशुभ्रे नभस्तले ।
दुग्धाब्धिशायिनः शौरेः सुधालिप्त इवौरसि ॥ ९०० ॥
वणिक्पुत्रः स्मराक्रान्तः सुहृदाश्वासितो मुहुः ।
क्षणार्धनिद्रितोऽपश्यत्स्वप्ने तामेव कामिनीम् ॥ ५०१ ।।
ततः प्रभाते विजने स्थितां तामेव कन्यकाम् ।
ययाचे संगमं तस्या लज्जा रागेण सह्यते ॥ १०२ ।।
तेन प्रणयिभृङ्गेन वल्लरीवाकुलीकृता ।
स्तनाग्रलग्नवदना बभाषे सा नता ह्रिया ।। ६०३ ॥
अहमद्यैव तातेन वचसा प्रतिपादिता ।
सखे समुद्रदत्ताय वणिजे गुणशालिने ।। ६०४ ॥
पूर्वमेव त्वयाभ्येत्य पिता मे किं न याचितः ।
अधुनाहं परवधूरगम्या विदुषस्तव ॥ ५०५॥
इति श्रुत्वा बलवता मन्मथेन समाहतः ।
सोऽवदद्वीक्ष्यमाणस्तां हठात्कण्ठगृहोत्सुकः ।। १०६ ॥
मम प्राणैः पणः सुभ्रु त्वां विना समुपस्थितः ।
कार्याकार्यविचारो हि कस्य जीवितसंशये ॥ ६०७ ॥
त्यजते प्राप्तममृतं यदेतद्बुद्धिलाघवम् ।
को जानीते परे लोके कस्य किं नु भविष्यति ।। ६०८।।
भज मामनवद्याङ्गि न चेत्त्वद्वदनामृतम् ।
स्वयं पिबामि किं प्राप्ते विधौ नक्षत्रचिन्तया ॥ ६०९ ॥
श्रुत्वेति चकिता तन्वी प्रोवाचानन्तवीक्षितैः ।
लज्ज्येव वितन्याना ततो मायूरकञ्चुकम् ॥ ९१० ॥


? सुन्दरीम् क. १२, 'कस्य क.