पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. शशाङ्कपत्यार-वेतालपञ्चविंशतिका ।
३२७
बृहत्कथामञ्जरी।

इति श्रुत्वा वीरदेवः संदेहाकुलितोऽभवत् ।
मन्त्रिभिः सहितो दृष्ट्वा मिथो बिम्बागतानिव ॥ ४८६ ॥
उक्त्वेति पप्रच्छ नृपं वेतालो विपुलाशयः ।
कस्मै नरपते ब्रूहि सा कन्या दीयतामिति ॥ ४८७ ॥
राजावदद्वैश्यशुद्रौ नार्हावन्न न संशयः ।
अन्यवृत्तिर्द्विजः पापः क्षत्रियः क्षत्रियापतिः ।। १८८ ॥
इति श्रुत्वेत्ति वेतालो गत्वा पुनरलम्बत ।
नृपो भूयस्तभादाय ययौ स्कन्धाच्च सोऽब्रवीत् ॥ ४८९ ॥
इति नवमो वेताल:॥ ११ ॥
वीरबाहोर्नरपतेर्नगरं पुरमण्डले ।
निदर्शनं धनवतामर्थदत्तोऽभवद्वणिक ॥ १९ ॥
धनदत्ताभिधस्तस्य पुत्रो भूतलनन्दनः ।
सुता मदनसेना च मदनस्येव देवता ॥ ४९१ ॥
धनदत्तववस्योऽथ धर्मदत्तो युवा वणिक् ।
तस्यानुजां कदाचित्तामपश्यत्तद्गृहागतः ॥ ४९२ ॥
दृष्टिर्युवनिरानन्दस्मयगुर्वी तरङ्गिते ।
यत्कान्तिसलिले मग्नाः समुद्धर्तुं न पार्यते ॥ ४९३ ॥
भ्रूलास्थवीचितरले हारहंससितोर्मिणि ।
लावण्यमानसे यस्याः कटाक्षैः शफरायितम् ।। ४२४ ॥
'उन्निद्रचन्द्रवदनां तां विलोक्य निजालयम् ।
गतो न लेभे स धृतिं सार्थभ्रष्ट इवाध्वगः ।। ४९६ ॥
स वै निःश्वाससंतापग्लपिताधरपल्लवः ।
अशान्तसर्वशिखिना कामेनेवान्तराश्रितः ॥ ४९६ ।।
अत्रान्तरे जलनिधिं संध्यारक्ते दिवाकरे ।
तापांदिव क्लान्ततनौ प्रविष्टे पद्मिनीप्रिये ॥ ४९७ ॥


५. “सह तां दृष्टा मियों क.. १. स्कुलनक, ३. 'तुल्यो' के.