पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
काव्यमाला ।

राजा ततस्तमादाय निरुद्वेगो ययौ जवात् ।
स च तत्स्कन्धगः प्राह धिक्ते निर्वेधमीदृशम् ॥ ४७३ ॥
क्व राज्यं च सुधागर्भपूर्णेन्दुवदनाश्च ताः ।
क्व चेदं मत्तवेतालं स्मशानमतिमीषणम् ॥ ४७४ ॥
क्षान्तिशीलेन पापेन जगच्चूडामणिर्भवान् ।
पातितः संशये घोरे शृणु तावत्कथामिमाम् ॥ ४७६ ॥
वीरदेवोऽभवच्छ्रीमानुज्जयिन्यां महीपतिः ।
तस्य पद्मरतिर्नाम भार्याभूच्चित्तचन्द्रिका ॥ ४७६ ॥
तपसा देवमासाद्य भवानीबल्लभं विभुम् ।
लेभे सभार्यस्तनयं कन्यां चायतलोचनाम् ॥ ४७७ ॥
शूरदेवाभिधे तस्मिन्दारके मुक्तशैशवे ।
अनङ्गरतिनाम्नी सा कन्यापि प्राप यौवनम् ॥ ४७८ ॥
तस्या बभूव संकल्पो यः शूरो विपुलाकृतिः।
लोके विस्तीर्णविद्यश्च स मे प्रणय भूरिति ॥ ४७९ ॥
नानादिगन्तभूपाला याचमाना नृपात्मजाम् ।
प्रत्याख्याता ययुर्लोके कुतः सर्वगुणो जनः ॥ ४८० ॥
ततः कदाचिदाजग्मुश्चत्वारः सदृशा नराः ।
विक्रान्ता विपुलाकारा विद्यासु च विचक्षणाः ॥ ४८१ ॥
ते समस्येत्य राजानमयाचन्त प्रियां सुताम् ।
प्रतीहारेण पृष्टाश्च निजामिजनमूचिरे ॥ ४८२ ॥
एकोऽवदच्चित्रवस्त्रनिर्माणकुशलो धनी ।
शूद्रोऽहं शौर्यसंपन्नो वयुः प्रत्यक्षमीक्ष्यताम् ॥ ४८३ ॥
द्वितीयः प्राह वैश्योऽहं भाषाज्ञः सर्वदेहिनाम् ।
तृतीयः प्राह राजन्यः खड्गी नान्योऽस्ति मत्समः ॥ ४८४॥
चतुर्थश्चाब्रवीद्विप्रो जानेऽहं मृतजीव॑नम् ।
शौर्यरूपगुणैर्विद्धि तुल्यानस्सान्महीपते ॥ ४८६ ॥


सरन का १. सोमवती क... 'बालके क. ४. विनीम् क.