पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
]
३२५
बृहत्कथामञ्जरी

कालनेमेः पुरयुगं ममेदं भोगमोक्षदम् ।
सर्वसिद्धिप्रदं दीप्तं रक्तहाटकनिर्मितम् ।। ४६२ ॥
जन्ममृत्युजराव्याधिवर्जितं दिव्यसौरभम् ।
अहं पुरद्वयोपेता त्दधीना नरेश्वर । ४६३ ।।
इत्याकर्ण नृपः प्राह स्पृशन्कार्पटिकं दशा।
प्रेमविश्रन्मभूरेको मम मानसदर्पणः ।। ४६४ ॥
सुहत्पिता सुतो बन्धुः स्वामी सर्वमयं मम ।
कुलोन्नतः सत्त्वशीलस्तदस्मै त्वं मयार्पिता ॥ ४६१ ॥
(पुत्रीव सुश्रु गुणिने भव्यस्ते प्रणयो यदि
निशम्य तां नरपतेर्गिरमौचित्यमन्थराम् ॥ ४६॥
तथेति लजिता प्राह सा लिखन्ती दृशा भुवम् ।
कन्यामसुरराज्यं च दुत्वा तस्मै नमोऽब्रवीत् ॥ ४ ॥
एकस्यामलकस्यैतत्फलमन्यद्गुणं मम ।
ताबाच्छत्ततस्तस्मिन्स निमज्य सरोवरे ॥ ४६८।।
उन्ममज्ज निजोद्यानलीलापुष्करिणीतटात् ।
कथां राज्ञे निवेद्येति वेतालः पुनरम्वधात् ।। ४६९।।
वद कः सत्ववानत्र नृपः कार्पटिको नु वा ।
इति पृष्टोऽब्रवीद्राजा किंचित्रं यदि भूपतिः ।। ४७०
कृते प्रतिक्रियां कर्तुं निमग्नो दृष्टवर्मना।
श्वाघ्यः कार्पटिको येन भीता क्रन्दासहिष्णुना ॥ ४७१ ॥
अदेशिके निरालम्बे निमग्नो मकरालथे।
श्रुत्वेत्यलक्षितो यातो वेतालो विपुलच्छलैः ।
शिंशिपाप्रात्रान्तमापत्य पुनरूल्लम्बितः स्थितः ।। ४७२ ।।
इत्यष्टमो बेतालः ॥ १०॥


१. एतत्कोडान्तर्गतपाठःख-पुस्तके त्रुटिता.

२. निशाभ्य' इति भवेत