पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
काव्यमाला ।

इत्युक्त्वा सचिवन्यस्तराज्य प्रणयिवत्सलः
सह कार्पटिकेनैव चण्डसेनोऽम्बुधि ययौ ॥ ४४९ ॥
तत्र प्रवहणारूढः सलिले तत्प्रदर्शिते ।
निमज्य तेन सहितः क्षिप्रं पातालमासवान् ॥ ४९० ॥
ततो गौर्याश्रमे कन्यां तामपश्यत्सुलोचनाम् ।
नवां सरमयूरस्य निवासकदलीमिव ।। ४५१ ॥
सैंहिकेयपरित्रासाल्लक्ष्मी हरिणलक्ष्मणः
चक्रिचक्रसमाकान्तामिव पातालमाश्रिताम् ॥ ४५२ ।।
तां दृष्ट्वा भूमिपालोऽभूद्गाढप्रमदविस्मयः ।
अहो स्थानेऽनुरक्तोऽयमितिलोलितशेखरः ।। ४९३ ॥
सापि संपूज्य वरदां प्राप्तोद्वाहवरा सती !
दृष्ट्वा राजानभवदन्निजदासीं सविस्मया ॥ ४९४ ॥
ब्रूहि सत्वोचिताकारं गत्वैनं पुरुषोत्तमम् ।
देव पूजां गृहाणेति तमादिष्टेत्यभाषत ।। ४९५ ॥
इह स्थितेनैव मया गृहीता सुभ्रु सत्कृतिः ।
इति भूमिभुजाप्युक्ता कन्यकामेत्य सावदत् ॥ ४५३ ।।
निर्विकारेण सत्त्वेन तस्यावष्टम्भशालिनाः ।
सा भुजङ्गी ततः कृष्टा मन्त्रेणेवान्तिकं ययौ ॥ ४९७ ।।
सुवर्णवल्लरीरम्ये रत्नपादपकानने ।
सर्वर्तुफलपुष्पाढ्ये विश्रान्तं सा तमब्रवीत् ॥ ४५८ ॥
पूजां देव गृहायातो गृहाण मम सादरम् ।
इत्यर्थितस्तया राजा. जगाद सहितोऽभुना ।। ४९९ ॥
द्रष्टुं गौरीमहं प्राप्तस्त्वां ज्ञात्वा त्वर्थिवत्सलाम् ।
इति श्रुत्वा परिज्ञाय तं कार्पटिकमानतम् ॥ ४६० ॥
मुंहूर्तं लज्जया तस्थौ स्मृत्वा तां तस्य वञ्चनाम् ।
ततोऽब्रवीत्सा राजेन्द्र सुताहमसुरप्रभोः ॥ ४६१ ॥