पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. शशाङ्कबत्याम्-वेतालपञ्चविंशतिका ।
३२३
बृहत्कथामारी ।

जय मायागुणप्रोतजगद्यन्त्रविनोदिनि ।
जय स्फोटसमुन्मेषव्याप्तविश्वसरस्वति ॥ ४३७ ।।
इति स्तुत्वा भववधूं तत्पुराग्रे ददर्श सः ।
दासीसहस्रानुगतां कन्यां दिव्यविभूषणाम् ॥ ४३८ ॥
हरिणीहारिनयनां मत्तमातङ्गगामिनीम् ।
विलासलीलालसितां स्मरोपवनमञ्जरीम् ॥ ४३९ ।।
लावण्यवारिपरिस्वां मेखलायन्त्रमालिकाम् ।
रुद्धनेत्रानलध्वस्तस्मररक्षापुरीमिव ॥ ४४०।।
तां दृष्ट्वा स स्खलद्वीर्यो मुद्रितः पुष्पधन्वना ।
चित्रन्यस्त इव क्षिप्रमभूद्विस्मयनिश्चलः ॥ ४४१ ।।
स पूजयित्वा शर्वाणीं प्रविष्टां मणिमन्दिरे ।
अनुप्रविश्य तत्क्रान्तिं पपौ नयनचन्द्रिकाम् ॥ ४४२
तस्यां स्फाटिकपर्यङ्कनिषण्णायां स सादरम् ।
नीतः कार्पटिकः स्नातुं दासीभिर्विमलं सरः ।। ४४३
स्नानार्थं नोदितस्तत्र ताम्रलिप्तान्तरंस्थितान् ।
उत्तस्थौ भूमिपोद्यानक्रीडाकमलिनीतटात् ॥ ४४४ ॥
ततो नवमधुक्षीव इवानन्दितमानसः ।।
कन्दर्पसर्पदष्टोऽभूत्स तत्रात्यन्तमूर्छितः ॥ ४४॥
क्षिप्रमुद्यानपालेन विज्ञप्तोऽहं तदागमम् ।
चण्डसेननृपोऽभ्येत्य तं ददर्श तथास्थितम् ॥ ४४६ ॥
स कथंचित्परिज्ञाय नृपमुन्मील्य लोचने ।
मन्दमन्देन वचसा निजवृत्तान्तमभ्यधात् ।। ४४७ ।।
तच्छ्रुत्वा विस्मितो राजा तमुवाच स्मरातुरम् ।
समाश्वसिहि पातालं गच्छावः पुनरब्धिना ।। ४४८ ॥


धिरेश्वरि क.

२. "लि' क. ३. 'द्रनेत्रानलनस्तक 'भातुरूषत्यसोऽपश्यत्तालिप्तरे स्थितम् क.