पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
काव्यमाला ।


तत्र संदृश्य पानीयं वित्तीर्यामलकद्वयम् ।
नृपं साश्वं समाश्वास्य मार्ग कार्पटिकोऽदिशत् ॥ ४२४ ॥
पुनः स्वनगरं प्राप्तो मन्त्रिभिर्विहितोत्सवः ।
तुष्टः कार्पटिकं श्रीमांश्चकारात्मसमं नृपः ॥ ४२९ ।।
ततः कदाचिद्दर्पेण स सिंहलपतेः सुताम् ।
मृगाङ्कलेखामुचितां विसृष्टो याचितुं ययौ ॥ ४२६ ॥
स. पापाम्भोनिधिं तुङ्गतरङ्गालिङ्गितास्वरम् ।
कैलाशमिव चार्वकशिखिरोल्लिखिताखिलम् ॥ ४२७ ।।
तत्रारुह्य प्रवहणप्रस्थिते सिंहलोन्मुखे
तस्मिन्महिषसंकाशः समुत्तस्थौ महाधनः ॥ ४२८ ।।.
तदुद्भूतमहावात्या चण्डताण्डवितेऽम्बुधौ ।
प्रलयावर्तवित्रस्ताः क्वापीव ककुभो ययुः ॥ ४२९ ।।
ततः प्रवहणारूढा वणिजो ब्राह्मणास्तथा ।
चन्द्रसिंहमहीपालं चुक्रुशुर्भयकातराः ॥ ४३० ॥
तं स्वामिशरणाक्रन्दं श्रुत्वा कार्पटिकोऽम्बुधौ ।
अभृष्यमाणः सहसा समज्जाकोशखङ्गमृत् ॥ ४३१॥
ततो भग्ने प्रवहणे सर्वे ते जलचारिभिः ।
भक्षिताः सत्वशीलस्तु निजोत्साहेन रक्षितः ।। १३२ ।।
ध्वजयष्टिं जले दृष्ट्वा तत्पार्श्वेन प्रविश्य सः ।
अपश्यत्काञ्चनपुरं पाताले रत्नतोरणम् ॥ ३३ ॥
मणिप्रासादमध्यस्थां तत्र तुष्टाव पार्वतीम् ।
भुजङ्गदैत्यकन्याभिः कृतपूजामहोत्सवाम् ॥ ४३४ ॥
जय गौरि गलद्गर्वगीर्वाणगणवन्दिते ।
जय काललघुग्रासहेलाहुंकृतिशालिनि ॥ १३९ ॥
जय सोत्सुकचण्डीशनेत्रषट्पदपद्मिनि ।
जब दैत्येन्द्रहृत्पद्मसंकोचघनकौमुदी !! ४३६ ॥


१. क. २, 'नमन्मौप्लिगीर्वाण' क. ३. 'कला' क.