पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाश्वत्याम्-बेतालपश्चविंशतिका ।
३२१
बृहत्कथामञ्जरी।

व्याजृम्भि वाहशार्दूलदंष्ट्रांशुविशमण्डलम् ।
अम्बिके जयति स्मैरं पादाम्बुजयुगे तब ।। ४१२ ॥
श्रुत्वेति पार्वती तुष्टा शिरःसंघट्टने तयोः ।
द्वाग्जीवितुं व्यादिदेश भक्तिः कल्पलतेव यत् ॥ ४१३ ॥
भर्तुर्धातुश्च सा शीर्षयोजने संभ्रमाकुला ।
दैवाद्विनिमयं चक्रे मुग्धा तत्र शरीरयोः ॥ ४१४ ॥
भ्रातरं भर्तृवदनं भर्तारं चाग्रजाननम् ।
ततस्तावृत्थितौ दृष्ट्या सा संदेहाकुलाभवत् ।। ४१५ ॥
कथयित्वेति वेतालः पृष्टवानुर्वरीपतिम् ।
भर्तार सेव्यतां बाला कं ताभ्यां सा सुलोचना ।। ११६ ॥
श्रुत्वेति राजा प्रोवाच तस्या भर्तृमुखः पतिः ।
शिरः सर्वेन्द्रियाधारं सकलं हि कलेवरम् ॥ १७ ॥
इति मौनपरित्यागद्राज्ञः क्षणमलक्षितः ।
वेतालो वृक्षमभ्येत्य तथैवोल्लम्वितः स्थितः ॥ ४१८ ।।
इति सप्तमो वेतालः ॥ ९ ॥
ततः पुनस्तमादाय जगाम जगतीपतिः।
तत्स्कन्धस्थोऽपि वेतालः प्राह तं श्रूयतामिति ॥ ४१९ ।।
बभूव चन्द्रसिंहाख्यस्ताम्रलिप्ताधिपो नृपः ।
दिक्षु यद्विक्रमोत्साहश्लथा वीरकथाभवत् ॥ २० ॥
तस्य सेवाव्रतः सत्वशीलाख्यो राजवंशजः !
आसीत्कार्पटिको द्वारि शीतातपसहश्चिरम् ।। ४२१ ।।
ततः कदाचिन्मृगयारसाकृष्टः स भूपतिः ।
पाष्णिसस्पर्शरोषेण हृतोऽश्वेनातियायिना ।। ४२२ ॥
निर्मानुषं वनं प्राप्य स दूराध्वश्रमातुरः ।
नापश्यदनुगं कंचिदेकं कार्पटिकं विना ।। ४२३ ।।


१. विजृम्भि' क. १. 'तजीवित हादिदेश' क.३. 'नवनीपतेः' क. ४. चण्डसेनः'

कथासरित्सागरे.