पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
काव्यमाला ।

तां चन्द्रबिम्बवदनां विलोक्य स्तबकस्तनीम् ।
स्वगृहं रजको गत्वा बभूव स्मरतापितः ।। ४००
पिता विदितवृत्तान्तस्तस्य दृष्ट्वा स्मरव्यथाम् ।
कन्यां ययाचे रजकं गत्वा शूद्रपटाभिधम् ॥ ४०१ ।।
आदरेण ततः पित्रा दत्तां मदनसुन्दरीम् ।
अवाप्य धवलो लेभे जीवितं विततोत्सवः ॥ ४०२॥
दत्तां कदाचितां पुत्रीं भर्तृगेहे चिरस्थिताम् ।
आनेतुं प्राहिणोत्पुत्रं स्वीयं शुद्धपटस्ततः ॥ ४०३ ॥
भ्रात्रा निमन्त्रिता साथ मर्त्रा सह समागता।
पथि गौर्याश्नमं प्राप्य निषण्णा तत्सरस्तटे !! ४०४ ॥
द्रष्टुं ततो भगवतीं प्रविष्टो धवलः स्वयम् ।
उपहारं निजशिरः प्रददौ दैवनोदितः ॥ ४०५ ।।
भगिनीपतिमन्चेष्टुं प्रविष्टो वीक्ष्य तं पुरैः ।
तथैव निजमूर्धानं चिच्छेदाकुलिताशयः ॥ ४० ॥
अथैका तावपश्यन्ती देवीं रजकसुन्दरी।
द्रष्टुं प्रविष्टा तौ दृष्ट्वा पतितौ मर्लुमुद्यता ।। ४०७ ॥
अशोकशाखिनः प्रान्तं पाशं सज्जीचकार सा।
ज्वलितास्तस्य तद्दुःस्ववह्निना कुसुमश्रियः ॥ ४०८ ॥
मुहुः स्तनाग्रविन्यस्तसाञ्जनाश्रुकणावली ।
लतेव स्तबकासक्तभृङ्गाली सास्तवीत्सतीम् ॥ १२९ ॥
श्रीकण्ठकण्ठनीलाञ्जनवषट्पदमालिका ।
दृष्टिर्जयति ते देवि दैत्यसंहारयामिनी ॥ १० ॥
त्रिलोचनमनःसिन्धुहर्षवीचिर्विलासिनी ।
कान्तिर्जयति ते गौरि शुम्भकैरवकौमुदी ।


२. 'वे क...३.न.क.

दुःखस्य व क. ५ मतकार्य का ६, 'दद्वत्सती क. ७. 'दायिनी क. ८. 'का' ४.