पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२१
काव्यमाला ।

हृष्टस्ततः स्वतनयां विस्मितो वचसा ददौं
शुभे दिने सप्तमेऽस्तु विवाह इति संविदा ।। ३७६ ॥
अत्रान्तरेऽपरो विप्रः शूरो धीमान्कृतश्रमः ।
देवस्वामिनमभ्येत्य तत्वसारमयाचत ।। ३७६ ।।
ज्ञानिविज्ञानिशूराणां मध्यादेको लभेत ताम् ।
इत्यसौ तद्वचः श्रुत्वा धनुर्विद्यामदर्शयत् ॥ ३७७ ॥
अनेकमल्लसंचार्य दृष्ट्वा तस्यानतं धनुः ।
देवस्स्वामी ददौ तस्मै विस्मितो भगिनीं गिरा ॥ ३७८ ॥
मात्रापि द्विजपुत्राय कस्मैचिज्ज्ञानशालिने ।
पुत्री वाक्येन दत्तासौ तत्प्रभावोदितस्मयात् ॥ ३७९ ॥
सप्तमेऽह्नि वृतस्तेषां लग्ने प्राप्ते गृहाधिपः ।
हरस्वामी स्वतनयां ददशोज्ज्वलभूषणाम् ॥ ३८ ॥
ज्ञानिविज्ञानिशूरेषु तुल्यं प्राप्तेष्वथोत्सवे ।
अन्विष्टापि प्रयत्नेन कन्या नैव व्यदृश्यते ।। ३८१
ततस्तजनकः प्राह दुःखितः साश्रुलोचनः ।
ज्ञानिन्वद क्व यातासौ निकषेयं तवागतः ॥ ३.८२ ॥
इति पृष्टः स चोवाच धूम्राक्षेणाध रक्षसा ।
सा नीता रूपलुब्धेन घोरां विन्ध्याटवी मितः ॥ ३८३ ॥
विज्ञानिना कल्पितेऽथ समारुह्य रथोत्तमे ।
शूरस्तं राक्षसं हत्वा कन्यकामानिनाय ताम्) । ३८३ ।।
ततो लक्षणे प्राप्ते तत्पिता श्रान्तमानसः ।
सर्वे कृतोपकाराश्च तुल्याश्चेति व्यचिन्तयत् ॥ ३८५ ॥
कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् ।
कस्तेभ्यः कन्यकालाभयोग्य इत्युच्यतां विभों ।। ३८६ ।।
पृष्टोऽब्रवीन्नरपतिः स पात्रं येन निर्जिता।
सा कन्यान्यौ तु विधिना दिष्टौ तौ सिद्धिकारणम् ॥ ३८७ ॥


श्रा का