पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाश्वत्थाम्-बेतालपश्चविंशतिका ।]
३२०
बृहत्कथामञ्जरी


इति मौनपरित्यागात्स राजः सहसा गतः ।
पुनः पुनर्दृष्टनष्टस्तथैवोल्लम्बितः स्थितः ।। ३६३.३.
इति पञ्चमो वेतालः ॥७॥
(पुनस्तमादाय ययावस्विन्नो वसुधाधिपः ।
स च स्कन्धस्थितः माह शृणु राजन्कथामिमाम् ॥ ३६४ ॥
अस्ति धर्मस्य वसुधा लक्ष्म्याः क्षेत्र स्थितिः स्थितेः ।
संपदां सदनं स्वर्गं जयत्युज्जयिनी पुरी ॥ ३६६ ॥
पुष्यसेनाभिधानस्य तस्यानासीन्महीपतेः !
ब्राह्मणः सेवको धीमान्हरिस्वामीति विश्रुतः ॥ ३६६ ॥
देवस्वामी सुतस्तस्य बभूव श्रुतिपारगः ।
सोमप्रभा च तनया मूर्तेव श्रीर्मनोभुवः ॥ ३६७ ।।
विज्ञानिने ज्ञानिने वा देया शूराय वा त्वया ।
अहमित्याप्तनियमा पितरं सा व्यजिज्ञपत् ।। ३६८ ॥
अनान्तरे दाक्षिणात्ये नृपे जेतुं समागते ।
पुण्यसेनो नरपतिः सहामात्यैरचिन्तयत् ॥ ३६९ !!
सर्वथा सानसाध्योऽसौ रक्तामात्यो महाधनः ।
शूरश्च राजा तेनास्मै दूतो धीमान्विसृज्यताम् ॥ ३७० ॥
इति मन्त्रिगिरा राजा वचस्वी गुणवान्द्विजः ।
हरस्वामी विमृष्टस्तत्कटकं सहसाभ्यवात् ॥ ३७१ ॥
तत्र राज्ञा समाधाय संधि तस्मिन्स्थिते क्षणम् ।
विप्रः कश्चित्तमभ्येत्य ययाचे रुचिरः सुताम् ।। ३७२॥
सोऽब्रवीज्ज्ञानिविज्ञानिशूरेभ्यो नापरः सखे ।
योग्यः पुत्री मयोद्वोढुमिति नः समयो दृढः ।। ३७३ ॥
तत्सुता ब्राह्मणयुवा विज्ञानं खमदर्शयत् ।
क्षणेन दृष्टवान्येन हरिस्वामी जगत्रयम् ॥ ३७४।।


१. एतत्कोष्ठान्तर्गतपाठः क-पुस्तके त्रुटितः,