पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
काव्यमाला ।

सत्यं भोजनचङ्गोऽयमित्युक्त्वा विस्मितो नृपः ।
दिदेश नारीचङ्गाय दासी कुवलयेक्षणाम् ॥ ३६० ॥
समाल्यसौरभाहूतभृङ्गव्याकुलमालिनीम् ।
तस्य शय्यान्तिकं प्राप्य तस्थौ हासविलासिनी ॥ ३५१॥
नारीचङ्गोऽप्यथोत्थाय करस्थगितनासिकः
ष्ठीवनव्याकुलस्तत्र निर्ययौ सहसा बहिः ॥ ३१९ ॥
हतच्छागलगन्धेन बताहं दुष्टयोषिता ।
इति क्रन्दन्तमाकर्ण्य तं ददर्श महीपतिः ॥ ३५३ ।।
अजादुग्धैरियं बाला मात्रा हीना विवर्धिताः ।
इति पृष्टा नृपेणाहं दासी लज्जानतानना ॥ ३९४ ॥
स्त्रीचङ्गोऽयं भवत्येव निगद्येति नरेश्वरः ।
सप्ततूलीकृतां शय्यां शय्याचङ्गाय दत्तवान् ।। ३६५ ॥
सप्ततूलीजुषस्तस्य पर्यङ्कतलवर्तिना ।
वालेन वलयाकारं गात्रेऽमूल्लक्ष्म लोहितम् ॥ ३५६ ॥
सव्यर्थ निःश्वसन्तं तं दृष्ट्वा वालं च भूपतिः ।
सत्यं शयनचङ्गोऽयमित्युवाच सविस्मयः ॥ ३९७ ।।
ततस्तेषां नृपतिना दत्तैर्द्रविणसंचयः ।
संभोगसक्त्तास्तत्रैव तस्थुस्ते द्विजपुत्रकाः ।। ३५८ ।।
तत्पिता ऋतुभङ्गाच्च विधायानशनव्रतम् ।
सभार्यः प्रययौ स्वर्गं जपयज्ञपवित्रितः ।। ३६६ ।।
इत्यभ्युदीर्य वेतालो मोहयन्निव मायया ।
मातापित्रोस्तेषु हत्या पतिता कस्य भूपते ॥ १६० ।।
एतेभ्यः कोऽधिकश्वङ्ग इत्यच्छन्महीपतिम् ।
पृष्ठो. नरेश्वरः प्राह द्वावप्रत्ययवीक्षकौ ॥ ३६१ ॥
शय्याचङ्गोऽधिकस्तेभ्यो यो वालेनाङ्कितस्तनौ ।
तन्न्यूनयोः पातकं तत्पितृप्रलयसंभवम् ॥ ३६२ ॥


प्रमिदी का