पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशावत्याम्-वेत्तालपञ्चविंशतिका ]
३१५
हत्कथामञ्जरी

श्रुत्वेत्यदर्शनं यातो वेताल शिशिपातरौ ।
अधोमुखो निरुच्छ्वासस्तथैवालम्बितः स्थितः ॥ १३८ ।
इति चतुर्थो वेतालः ॥ ६ ॥
ततस्तमादाय नृपः प्रययौ विपुलाशयः ।
सच स्कन्धस्थितः माह शृणु चित्रं महीपते ॥ ३३९ ।।
द्विजोऽभूदङ्गविषये विष्णुस्वामी महाधनः ।
बभूवुस्तस्य तनयास्तरूणाः सुखशालिनः ।। ३४० ॥
कदाचिद्याजिना तेन ते विसृष्टा महोदधिम् ।
यज्ञाय कूर्ममाहर्तुं ययुरादेशकारिणः ॥ ३४१ ॥
ते समुद्रं समासाद्य प्राप्य कूर्मं महाकृतिम् ।
दुरामोदं न जगृहुः पिच्छिलाङ्गं जुगुप्सया ॥ १४२ ।।
संप्राप्तेऽप्यगृहीतेऽस्मिन्कच्छपे वेशधारणात् ।
ध्रुवं नो याति जनको दीक्षाभङ्गादधोगतिम् ॥ ३४३
गृहाण त्वं न शक्तोऽहं क्षमस्त्वं न त्वहं विभो।
इति तेवामभूत्तत्र जल्पश्विरमनल्पकः ॥ १४ ॥
नारीचङ्गोऽहमुचितो बीभत्सेऽस्मिन्नकर्मणिः ।
भ्रातर्भोजनचङ्गोऽहं शय्याचङ्गोऽधिकोऽप्यहम् ॥ ३४५ ॥
इति ते जातकलहा विटङ्कनगरेश्वरम् ।
प्रसेनजितमभ्येत्य पप्रच्छुर्निजगौरवम् ॥ ३४६ ॥
इति विश्रम्यतामद्य प्रातर्दातास्मि चोतरम् ।
इति राज्ञा समादिष्टास्तस्थुस्तत्रैव ते द्विजाः ॥ ३.४७
अथैकः प्रस्तुतो भोक्तुं नवकर्पूरसौरभम् !
शालिभोजनमम्लावं नाम्यनन्दद्विकूणितः ॥ ३४८ ॥
ततस्तन्दुलमज्ञासीद्दुष्टमन्विष्य भूपतिः ।
श्मशाननिकटक्षेत्रजातधान्यसमुद्भवम् ॥ ३४९ ॥


'रक्षणातू' क.