पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
काव्यमाला ।

ततो वीरवरो गत्वा विस्मयाकुलितो गृहे ।
धृत्वा सदारिकां भार्यां राजद्वारं समाययौ ।। ३२६ ।।
राजा महिष्यै हर्षाय वृत्तान्तं विनिवेद्य तम् ।
पुनः पप्रच्छ कोऽप्यत्र स्थित इत्यनभिज्ञवत् ।। ३२७ ।।
अहं वीरवरो देव स्थितः सा स्त्री मयेक्षिता ।
न दृष्टा राक्षसी नूनं रुरोद निशि मायया ॥ ३२८ ॥
इति वीरवरेणोक्तमाकर्ण्य जगतीपतिः ।
प्रशशंसास्य तद्धैर्यमविकत्थनतां च ताम् ॥ ३२९ ।।
ततः प्रभाते भूपालः सभास्थानमुपागतः ।
निवेद्य रात्रिवृत्तान्तं मन्त्रिभ्यो निश्चलस्ततः ॥ ३३॥
ददौ वीरवरायाशु लाटराज्यं ससागरम् ।
नर्मदाकूलसहितं संगौडं दक्षिणापथम् ॥ ३३१ ॥
तं च शक्तिवरं दत्वा राजानं दक्षिणापथे।
मेने तदुपकारस्य शतांशस्य प्रतिक्रियाम् ।। ३३२ ॥
कथयित्वेति वेतालो भूपालं पृष्टवान्पुनः ।
शंस कोऽभ्यधिकरतेभ्यो राजन्सत्ववतां वर ।। ३३३ ।।
(श्रुत्वेत्याह महीपालः सर्वे वीराः किमुच्यते) ।
किंतु वीरव्रतस्यैषा धैर्यलक्ष्मीः कुलव्रतम् ।
भृत्योऽसौ तत्किमाश्चर्यं सेवा हि प्राणविक्रयः || ३३४ ॥
तस्य पुत्रस्य तत्तुल्यो यदि तत्किमिवाद्भुतम् ।
नहि सौवर्णशैलायात्काचखण्डः प्रजायते ॥ ३३५ ॥
किं चित्रं यदि सत्त्वाद्या भार्या तस्य कुलोचिता ।
नहि श्रिता कल्पतरूं वल्ली काचिदकाञ्चनी ॥ ३३६ ।।
अत्र सत्त्ववतां धुर्यः श्रीमानेको नरेश्वरः
विक्रीतजीविते मृत्ये यस्य प्राणैः प्रतिक्रिया ॥ ३३७ ॥


सित तसे क. २. 'मरुकच्छे च भूरिदः क. ३. एतत्कोष्टान्तर्गतपाक