पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाकवल्याम्-वेतालपञ्चविंशतिका ।
३१३
बृहत्कथामञ्जरी।

जय देवि जगज्जन्मजरामरणकारिणि ।
जय संरब्धदैत्येन्द्रहृदयाम्भोजदारिणि ।। ३१५ ॥
जय पातालकुहराकाराविस्फारितानने ।
उरुरावस्फुरत्खण्डब्रह्माण्डभयदीक्षिते ॥ ६१५ ॥
जय ताण्डवितोद्दण्डचण्डवातहताचले ।
लडत्कङ्कालमालोग्रव्याल्गवालकुण्डले ॥ १६ ॥
जय दानवहृत्पद्ममालासृक्प्लावशालिके ।
अकाण्डसंध्यासंमत्तभूतवेतालमालिके॥ ३१७ ॥
जय व्याकोशस्वङगाशुश्यामीकृतदिगन्तरे।
महिषासुरनिकृष्टचर्मणैवावृताखिले ॥ ३१८ ॥
इति स्तुत्वा भगवतीं शिरश्छत्वासिना निजम् ।
देव्यै निवेद्य सत्त्वाब्धिः स पपात महीतले ।। ३ १९ ।
गणयित्वा क्षितिपतिस्तस्य तत्सर्वमूर्जितन् ।
बभूव विसयोत्साहैः स्पृष्टरोमाञ्चकञ्चुकः ।। ३२० ॥
एवंविधं बिना भृत्यं कि श्रिया जीवितेन वा।
ध्यात्वेति निजमूर्धानं सोऽपि च्छेत्तुं समुद्ययौ) ॥ ३२१ ॥
जीवितेन मदीयेन जीवत्वेयः सपुत्रकः ।
देवि वीरवरो वीरः प्रोवाचेत्यथ शूद्रकः ।। ३२२ ॥
सहसा खङ्गधाराग्रसंगते तस्य मस्तके।
देवी साक्षादुवाचेदं मा कृथाः पुत्र साहसम् ।। ३२३ ॥
सत्वेनानेन ते राजंस्तूर्णं वीरवरो द्विजः ।
सपुत्रपुत्रीदयितः समुत्तिष्ठतु मद्वरात् ॥ ३२४ ।।
इति चण्डीगिरा तस्मिन्सानुगे सहसोस्थिते ।
अलक्षितः क्षणात्प्रायान्निजमन्तःपुरं नृपः ॥ ३२९ ॥


1. वा' क. २. 'रुद्ररा' क... 'मि' क. लद्वाल' क. ५. "कुत्त' क.

एतत्कोचान्तर्गतपाठः क-पुस्तके त्रुटितः,