पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
काव्यमाला ।

इति वीरवरः श्रुत्वा तामपृच्छत्कृताञ्जलिः
अप्यस्त्युपायः क्ष्मापालरक्षणे देवि कथ्यताम् ॥ ३०१ ॥
पृष्टेति पृथ्वी प्राहैनमस्त्येव यदि शक्यते ।
पुत्रं शक्तिवरं बालं चण्डिकायै ददासि चेत् ॥ ३.०२ ॥
स्वयमुत्कृत्य खङ्गेन ततो जीवति पार्थिवः ।.
इति श्रुत्वा निजं गेहं ययौ वीरवरो निशि ॥ ३०३ ॥
अलक्षितेनानुयातो राज्ञा विस्मयशालिना ।
गृहे विबोध्य दयितां शिशुं शक्तिवरं वरम् ॥ ३०४ ॥
पृथिवीभाषितं सर्वमुवाचाविचलाशयः ।
तच्छ्रुत्वा बालकः प्राह धन्योऽहं प्रभुरक्षणात् ॥ ३० ॥
उत्सवो निधनं नाम भर्तृपिण्डोपजीविनाम् ।
मृत्यैरेव स्वयं मूल्ये क्रिया ते कायविक्रयः ॥ ३०६ ॥
इति वादिनमाधाय स्कन्धे शक्तिवरं सुतम् ।
स्वपुत्र्या भार्यया सार्धं स ययौ चण्डिकालयम् ॥ ३०७ ॥
तत्र दीपांशुकपिशसंचरद्योगिनीगणम् ।
राज्ञः श्रेयोऽस्त्विति प्राह छित्वा पुत्रस्य मस्तकम् ॥ ३०८ ।
अश्रोच्चचार चतुरं चण्डिका वचनं दिवि ।
तुष्टा च भूभुजा प्राप्तमायुर्वर्षशतं पुनः ।। ३०९1
इति भूमिपतिश्छन्नो निशम्याचिन्तयत्स्मयात् ।
अहो धैर्यममर्यादमहो सत्त्वं द्विजन्मनः ॥ ३१० ॥
इति ध्यायति भूपाले भ्रातरं वीक्ष्य कन्यका ।
हतं वीरवती नाम पञ्चतां प्रययौ क्षणात् ।। ३११ ।।
भार्या वीरवरस्यापि तेनैव रचितेऽनले ।
शोकासहा धर्मवती प्रियं तत्याजः जीवितम् ॥ ३१२ ॥
कृतार्थोऽस्मीति संचिन्त्य हृष्टो वीरवरस्ततः ।
आत्मोपहारं दुर्गायै दातुमभ्युद्यतोऽवदत् ॥ ३१३ ॥


त कविका