पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशावत्याम्-बेतालपञ्चविंशतिका ।
३११
बृहत्कथामञ्जरी

 
देव स्थितोऽहं कि कार्यमिति वीरवरोऽब्रवीत् ।
अर्धरात्रे पुनः पृष्टस्तदेव प्राह निर्व्यथः ॥ २८९ ।।
ततः शुश्राव नृपतिस्तारमाक्रन्दितं मुहुः ।
रजन्या इव पर्जन्यराक्षसात्ते क्षपाकरे ।। २९० ।।
हा नाय कमलाकेलिकमलायतलोचन ।
हा हा प्रचण्डदोर्दण्डखण्डितारातिमण्डल ! २९१ ।।
हा हा दिशामिनीकर्णकर्पूरापूरसंद्यशः ।
इत्याकर्ण्याब्रवीत्कोऽत्र स्थित इत्यवनीश्वरः ॥ २२२ ॥
ततो वीरवरं दूरास्थितोऽहमिति वादिनम् ।
का कन्दतीति कृपयादिदेश वसुधाधिपः ।। २९३ ॥
तस्मिन्गते तदन्वेष्टुं पारिधारावृताम्बरे ।
नृपोऽप्यलक्षितः पश्चात्त्स्वयं खड्गसखो ययौ ॥ २९४ ॥
तस्याः स्फारानिलावर्तनर्तितासीत्करावली
मुखं चुचुम्ब नक्षत्रमालेव शशिशङ्कया ॥ २९५ ।।
कण्ठे हारानुकाराभिर्धाराभिर्धरणीभृतः ।
खङ्गेऽपि लेभे भिन्नेभसक्तमुक्तावलीश्रियम् ॥ २९६ ॥
आक्रन्दितानुसारेण गत्वा वीरवरः स्त्रियम् ।
मत्वा तां मधुरालापां शुचः पप्रच्छ कारणम् ॥ २९७ ॥
कमलाकरमध्यस्था सा ग्राह तमलक्षिता।
शिक्षयन्तीव माधुर्यं कलहंसकुलं गिरा ।। २९८ ॥
अहं देवी महीभर्तुः शूद्रकस्याप्रवल्लभा ।
स च देवस्तृतीयेऽह्नि पूर्णायुर्दिवमेष्यति ॥ २९९ ॥
तेन रोदिसि न त्वेषा प्राप्ताहं तद्भुजे चिरम्।
वराहशय्यापर्यङअका विलाससुभगां स्थितिम् ॥ ३०० ।।


१.सवित्रः क. २. सते. कु. ३. 'युतेऽन्य क... ४. "स्थितः' क.