पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१०
काव्यमाला ।

इन्द्रनीलमहानीलशिलान्यस्ताविपङ्कजम् ।
करालकालीयशिरोन्यस्तपादमिवाच्युतम् ॥ २७७ ॥
तं वीक्ष्य सूचिताभिख्यः स प्रणम्यावदद्विभो ।
स्वड्गद्वितीयः सेवान्ते करोमीत्युन्नताशयः ।। २७८ ॥
सदा पञ्च प्रदीयन्तां रूपकानां शतानि मे ।
पुत्रः कुमारी भार्या चेत्येतावान्मत्परिग्रहः ।। २७९ ॥
इति तद्गिरमाकर्ण्य तद्वितीर्य नरेश्वरः ।
इयता किं करोतीति चारैः शुश्राव तत्कथाम् ।। २८० ।।
शतद्वयेन संपूज्य स्नातौ हरिमहेश्वरौ ।
शतद्वयं ब्राह्मणेभ्यो दीनेभ्यश्च प्रदीय सः !! २८१ ॥
गृहे विधत्ते निःशेषं शतेनैकेन तु व्ययम् ।
कृत्वैतदास्ते त्वद्वारि दिवारात्रिमतन्द्रितः ।। २८२ ।।
श्रुत्वेति कथितं चारैः प्रदध्यौ विस्मितो नृपः ।
सत्यं यत्पृथिवीमूल्यमेकस्यापि मणेरिति ॥ २८३ ॥
ततः कदाचिद्गम्भीरघनग्रस्त इवाखिले ।
करालकालमहिषश्यामले दुर्दिनागमे ॥ २८४ ॥
बलाकामण्डलस्मेरकपालशकलाकुले ।
विद्युञ्चितानलालोले श्मशान इव भीषणे ।। २८५ ॥
मिथो मेघपिशाचानां विनिप्पेषैः सगर्जितैः
पतन्तीष्वम्बुधारासु दन्तमालास्विवानिशम् ॥ २८६ ।।
नीहारजालच्छिन्नासु दिक्षु संघट्टितास्विवः ।
निवृत्तजनसंचारे कल्पापाय इवागते ।। २८७ ।।
निषण्णो निशि भूपालो धवलाशयशेखरे ।
सिंहद्वारे स्थितः कोऽसावित्युच्चैरभ्यभाषतः ॥ २८८ ॥


सीट क. १. ज्ञ' क्र. ३. 'सोदि क. इ. 'बच्छति' क. ५. 'अन्ये

विधा के... हिषांकारक्ष्या कलाकार क.