पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
काव्यमाला ।

शवदन्तस्थितां नासां प्रत्ययार्थमदर्शयत् ॥ २५३ ॥
तामेव क्षिप्रमाधाय छिन्नकर्णो ततो नृपः ।
दण्डपालं स नगरे चौरं चक्रे सदोत्थितम् ॥ २९४ ॥
इति स्त्रियः किल्विषस्य द्रोहस्य च निकेतनम् ।
कस्तासामपशुर्नाम प्रेमपाशवशं ब्रजेत् ॥ २५५ ।।
इति स्त्रीदुष्टाख्यायिका ॥ ४ ॥
इत्युक्त्वा राजपुत्राग्रे जातिं स्मृत्वाभवच्छुकः ।
गन्धर्वश्चित्रसेनाख्यः सारिका च तिलोत्तमा ॥ २५६ ॥
कथयित्वेति वेतालः पप्रच्छ क्षमापतिं पुनः ।
पापस्यायतनं नार्यः पुमांसो वेति कथ्यताम् ॥ २१७ ।।
श्रुत्वेत्यभाषत नृपः पापिनो विरला नराः ।
नार्यस्तु वेधसा यत्नाकिल्विषैरेव निर्मिताः ॥! २५८ ॥
इत्याकर्ण्यैव वेतालः सहसादर्शनं गतः ।
राज्ञा चित्तोल्मुकेनाथ पुनर्दृष्टस्तरुस्थितः ॥ २५९ ॥
इति तृतीयो वेतालः ॥ ५॥
मुक्ताहासमादाय ततस्तं गतसंभ्रमः ।
ययौ जवेन नृपतिस्कन्धस्थः सोऽप्यभाषत ॥ २६० ।।
मोहः पृथ्वीपते कोऽयं तवापि हृदि जृम्भते ।
दुष्टश्रमणसंपर्काद्यत्प्राप्तोऽसि महीमिमाम् ॥ २६१ ॥
दूरेऽध्वनि विनोदाय शृणु राजन्कथामिमाम् ।
अनार्यासं हि पाथेयं येथेष्ट कथनं पथि ॥ २६२ ॥
अस्ति शोभावती नाम नगरी संपदां निधिः ।
भुवो भूषणमालेच भूरिरत्नविराजिनी ॥ २६३ ॥
बभूव शूद्रकस्तस्यां यशस्वी पृथिवीपतिः ।
भार्गवादिकथाः कार्श्य यद्वीरचरितैर्ययुः ॥ २६४ ॥


क. २. 'दापि तम्' क... ३. 'चोल्मुकेना' क. ४. 'सादितपा क.

'पास्यसंवत्कय कता क... ससूर की ताक.