पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशावत्याम्-वेतालपञ्चविंशतिका ।
३०७
बृहत्कथामारी ।


रागिणी तं द्विजसुतं प्रसुप्ता भर्तुरन्तिके ॥ २४० ॥
मधुमत्तं समालोक्य सुझं काष्टमिवाचलम् ।
उत्थाय लघुसंचारा गन्तुमुद्यानमुद्यता ।। २४१ ॥
अथ प्रविष्टस्तद्वेश्म चौरः स्वैरं ददर्श ताम् ।
निर्यान्तीमन्तिकात्पत्त्युः सर्वाभरणभूषिताम् ॥ २४२ ॥
छन्नेनानुगता तेन शून्योद्यानमवाप सा ।
तं चौरशङ्कितैः कैश्चिद्ददर्शोल्लम्बितं. द्विजम् ॥ २४३ ।।
तं दृष्टा संविरुग्णेव पतिता विललाप सा ।
हा प्रिय श्रमपीयूष प्रणयामृतदीधिते ।। २४४ ।।
क्वासि मे प्रियसर्वस्वं देहि कर्णामृतं. वचः ।
इत्युक्त्वा पाशमुन्मुच्च कण्ठे जग्राह तं शवम् ॥ २४६ ॥
कृत्वा सकुसुमोत्तंसं तन्मुखं प्रचुचुम्ब च
ताम्बूलगर्भमादाय वेपमानकराधरा ॥ २४६ ।।
ततः सपदि वेतालः कृतावेशः सुनासिकाम् ।
तस्याश्चिच्छेद दशनैः सतीशिक्षा दिशन्निव ॥ २४७ ॥
छिलनासाथ शनकैः शय्यां भर्तुरुपेत्य सा!
चुक्रोश हा हता तेन पापेनास्मीति सव्यथा ॥ २४८ ॥
प्रतिबुद्धः स सहसा किमेतदिति संभ्रमात् ।
ब्रुवाणः श्वशुरेणैत्य श्रुत्वा च परिमर्त्सितः ॥ २४९ ।।
नासिकां दुहितुश्छिन्नां दृष्ट्वा कोपात्स भूपतेः ।
प्रातर्नीत्वा तमास्थानं तनयां तामदर्शयत् ।। २६० ।।
न मयास्याः कृतं किंचिदिति वादिनमेव तम् ।
अहो धार्ष्ट्यमिति प्राहुः सभ्याः कोपपराङ्मुखाः ॥ २५१ ॥
ततो राजाज्ञया तूर्णं प्रस्तुते तस्य निग्रहे ।
स चौरोऽभ्येत्य तत्सर्वं नरनाथं व्यजिज्ञपत् ।। २५२ ॥
राज्ञा दत्ताभयो रात्रिवृत्तान्तं चिनिवेद्य सः ।


'स्मरस' क. २. 'मो' क..३. 'सा' क. ४, 'खसा' के.