पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
काव्यमाला ।

कदाचित्सा शशिमुखी तुङ्गवातायनस्थिता ।
ददर्श पथि सुस्नातं युवानं द्विजपुत्रकम् ॥ २२९ ॥
तं दृष्ट्वा कामवातेन नदीवाकुलतां गता।
कुलकूलं निपातायः कृतारम्भावदत्सखीम् ॥ २३० ॥
सखि पूर्णेन्दुवदनो द्विजोऽयं प्रतिभाति मे ।
भुजङ्गो येन जातेयं विषव्याप्तेव मे तनुः ॥ २३१ ।।
वृथा मे यौवनमिदं याति नेयं स्तनस्थली ।
यदैतद्वक्षसि क्षिप्रं गाढालिङ्गनखर्वताम् ॥ २३२ ॥
उक्त्वेति मन्मथहता तया चानाय्य तं रहः ।
भेजे रतिं को हि शक्तो धर्तुं रागवतीमनः ।। २३३ ॥
सुचिरं रममाणायां तस्यां तेन विलासिना ।
कौमारस्तत्पतिस्तूर्णमाययौ सोत्सुकश्चिरात् ॥ २३४ ॥
पूजितः श्वशुरेणासौ निशि शय्यानिकेतनम् ।
विवेश माल्यधवलं मधुपानारुणेक्षणः ।। २३५ ।।
साप्यन्यसक्ता तं प्राप्य शीतार्तेवार्तिपीडिता ।
भुजोरुस्वस्तिकागम्य कुचश्रोणीतटास्वपत् ।। २३६ ॥.
अवाङ्मुखी निःश्वसन्ती स्पर्शसंकुचिता मुहुः ।
स तां प्रसादयामास मुग्धों मौनावलम्बिनीम् ॥ २.३७ ॥
अन्यत्र बद्धसौहार्दाः सावलेपाः सदा क्रुधः
अधिकं क्लीवमूर्खाणां यान्ति वल्लभतां स्त्रियः ।। २३८ ॥
इति दुःखाकुला तन्वी पत्युः पार्श्वै बभूव सा ।
कटुकौषधतुल्यं तं वेपमाना पितुर्भयात् ॥ २३९ ॥
(सिषेवे कम्पयन्ती स्वं शिरः कथमपि क्रुधा)।
अत्रान्तरे स्वसंकेतं. शून्योद्याने विधाय सा ।


म तदा यो के २. 'तो क.

धन्वतः पाठः का मुख धुटितः