पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशावत्याम्-बेतालपञ्चविंशतिका ।।
३०५
बृहत्कथामञ्जरी ।


कितवः पुनरभ्यायान्निःशङ्कः श्वशुरालयम् ।
मृतासौ नैव विज्ञाता दुहिता. भवतो ध्रुवम् ॥ २१७ ॥
याचे धनं तत्कृतेऽहं स ध्यात्वेति समाविशत् ।
प्रविश्य दृष्ट्वा तां तत्र स्वभार्यां भयकम्पितः ।।218।।
हा हतोऽस्मीति संचिन्त्य शिलाहत इवाभवत् ।
सापि व्यालोक्य मुदिता सहसैवोपसृज्यं तम् ॥ २१९ ।।
कर्णेऽवदन्न तातेन तज्ज्ञातं यत्त्वया कृतम् ।
विश्रब्धो भव मा भैषीस्तयेत्याश्वासितो रहः ॥ २२० ॥
उवास पूजितो हृष्टः श्वशुरावसथे चिरम् ।
ततः कदाचित्स द्यूतव्यसनादर्थलोलुपः ।। २२१ ॥
विश्वासमगमत्सापि दृष्टवेषान्यसुन्दरीम् ।
तां हत्वा तदलंकारमादाय प्रययौ निशि ॥ २२२ ॥
इत्येवं पापचरिताः पुरुषा निर्घृणाशयाः।
को नु दुष्टभुजङ्गानां तद्विधानां हि विश्वसेत् ॥ २२३ ॥
इति पुरुषदुष्टाख्यायिका ॥३॥
श्रुत्वेति सारिकावाक्यं राजपुत्रः सविस्मयः ।।
चूडामणिं विदग्धानामपृच्छत्सस्मितः शुकम् ॥ २२४ ॥
पृष्टः शोणमणिच्छायचक्षुर्मरकतप्रभः ।
रत्नाद्रिकुञ्जसिञ्जान इव क्रीडाशुकोऽवदत् ॥ २२५ ॥
हर्षवत्यभिधानायां धर्मस्य नृपतेः पुरि ।
बभूव धनदत्ताख्यः कुबेरसदृशो वणिक् ।। २२६ ।।
सुतां वसुमतीं नाम स ददौ वसुमान्मथम् ।
कान्तां समुद्रदत्ताय तारुण्यतरुमञ्जरीम् ॥ २२७ ॥
दत्वा पुत्री प्रियां तस्मै ताम्रलिप्तनिवासिने ।
अपुत्रो नात्यजद्गेहात्पुत्रत्वे परिकल्पिताम् ।। २२८॥


१, सोऽपि तेक. २. 'सक. ३. दोपमः' क, ४. 'रका क. ५. 'तो'