पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०४
काव्यमाला ।

मित्रैर्निःशेषविभवः कृतः स्त्रीद्यूतपानकैः
एक एव ततः प्रायाद्वित्तहीनो दिगन्तरम् ।। २०४ ॥
जडास्त्यजन्ति पर्यन्ते धूर्ता भोगाब्जषट्पदाः ।
स प्राय चन्दनपुरं भ्रान्त्वा पृथ्वीं निराश्रयः ॥ २०५॥
संतापार्त इव व्यालः शीतं चन्दनकाननम् ।
तत्र तस्मै परिज्ञाय पुत्रीं रत्नवतीं ददौ । २०६ ॥
हिरण्यगुप्तो निष्पुत्रः प्रवरो धनिनां वणिक् ।
सुखं स पूजितस्तेन स्थित्वा तत्र तथा चिरम् ।। २०७ ॥
श्वशुरं प्राह गच्छानि खुदेश मातुरन्तिकन् ।
इति श्रुत्वा मृशं तेन वारितोऽपि वधूसखः ।। २०८ ॥
अचिरात्पुनरेष्यामीत्युक्त्वा प्राप्तधनो ययौ ।
स गच्छन्नार्यया सार्धं दास्या चानुगतः शनैः ॥ २०९ ॥
निर्जनार्मंटवीं प्राप्य श्वम्रोपान्ते व्यचिन्तयत् ।
करण्डिकविनिक्षिप्तमादायास्या विभूषणम् ॥ २१० ॥
कुहरे प्रक्षिपाम्येनां बध्या रज्ज्वा किमेतया ।
ध्यात्वेति हृत्वालंकारं सदासीकां निपात्य ताम् ।। २११ ।।
ययौ कुतः कृतघ्नानां हृदये करुणाकराः ।
सापि बाला लताज़ालधृता नैव व्यपद्यत ।। २१२ ॥
पञ्चतां त्वरामद्वासी भिन्नकर्मा हि संसृतिः ।
ततः समुंद्धृताम्येत्य पान्थैः करुणकूजिनी ॥ २१३ ।।
नीता पौरैः परिज्ञाता पितुरेव निवेशनम् ।
सन्त्रासक्रम्पतरला पृष्टा पित्रा जगाद सा॥२१६।।
हृतो ने भूषणैः सार्धं भर्ता दस्युजनैरिति ।
श्रुत्वेत्याश्वासिता तेन दत्वान्यां भूषणावलीम् ॥ ११९ ॥
तस्थौ तमेव ध्यायन्ती स्निग्धमुग्धाशया पतिम् ।
सोऽपि कालेन तत्सर्वं भक्षयित्वा विभूषणम् ॥ २१६ ॥


थयौ