पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशावत्याम्-वैतालपञ्चविंशतिका ।
३०३
बृहत्कथामारी।

कामः संकल्पवसतिरिति सत्या जनस्थितिः ।
तस्या मगधपुत्रयाश्च सोभिका नाम सारिका ॥ १९१ ॥
बभूव विभ्रमसखी शुकस्य सदृशी गुणैः ।
तयापि तस्याः कथितो राजपुत्रः कथान्तरे ।। १९२ ।।
श्रुत्वैव राजतनया येनाभूत्स्मरतापिता।
कालेन मगधाधीशों याचितस्तां सुतां ददौ ।। १९३ ।।
तस्मै नरेन्द्रपुत्राय महार्हविहितोत्सवः ।।
सं तया संगतः श्रीमान्रोहिण्येव निशाकरः ॥ १९४ ॥
विजहार मनोहरिकेसरोद्यानभूमिषु ।
अथैकपरासक्तः शुकः सारिकया सह ।। १९५ ।।
तामुवाच प्रिये प्रेमभाजनं भज मामिति ।
सारिका प्राह पुरुषाः कृतघ्नाः क्रूरकारिणः ॥ १९६ ॥
न मह्यं रोचते तस्मात्त्वया प्रणयसंगमः।
श्रुत्वेति सारिकावाचं शुकः प्रोवाच सर्वथा ! १९७ ।।
पापस्यायतेनं नार्यो विपरीत प्रभाषसे ।
इत्युत्पन्नविवादे ते समभ्येत्य नृपात्मजम् ।। १९८ ॥
पप्रच्छतुः पणं दास्ये कृतस्त्रीपुरुषान्तरम् ।
ताभ्यां पृष्टः स्मितमुखो राजपुत्रोऽभ्यभाषत ॥ १९२ ।।
श्रुत्वा स्त्रीपुंसयोर्दोषांस्ततो न्यायं प्रचक्ष्महे ।।
इति तद्वचसा पूर्वं श्यामाङ्गी सारिकाब्रवीत् ॥ २० ॥
चम्पकस्यैव कलिको बिभ्राणां चञ्चुकन्दलीम् ।
अवन्तीवासिनः सूनुरर्थदत्तस्य संमतः ॥ २०१।।
बभूव धनदत्ताख्यो वणिजो धनदश्रियः ।
कालेन याते पितरि त्रिदिवं दयितासखे ॥ २०२ ।।
सोऽभवदुर्जनासक्तः किंचिदुन्मत्तशैशवः ।
स तैर्नित्यमकार्येऽपि साधु साध्विति वादिभिः ॥ २०३ ॥