पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०२
काव्यमाला ।

ते दृष्ट्वा विस्मयानन्दस्मरसंघर्षशालिनः ।
ममैवेयं ममैवेयमित्यूचुस्ते ससंभ्रमाः ॥ १७८ ॥
मन्मन्त्रेणोत्थिता तन्वी मयाप्ता तीर्थसेवया ।
मयास्या रक्षितं भस्म तेषामित्यभवत्कलिः ॥ १७२ ।।
कथयित्वेति वेताल: पप्रच्छ पृथिवीपतिम् ।
राजन्धर्मेण सा कस्य दयिता सत्यमुच्यताम् ॥ १८० ॥
इति पृष्टो नृपस्तेन बभाषे शापकम्पितः ।
तस्यास्तं जनकं मन्ये यस्तां मन्त्रैरजीवयत् ।। १८१ ॥
पुत्रकार्ये परेणास्याः शङ्के तीर्थेषु यत्कृतम् ।
बेताल तस्य धर्मेण तद्भस्मशयनः पतिः ॥ १८२ ।।
श्रुत्वेत्यलक्षितो गत्वा क्षिप्रं स्कन्धान्महीपतेः ।
स शिंशिपातरुपान्ते तथैवोल्लम्बितः स्थितः ।। १८३ ।।
इति द्वितीयो वेतालः ॥२॥
राजा पुनस्तमादाय ययौ तूर्णं महाजवः ।
स च स्कन्धस्थितः प्राह नृपते श्रूयतामिति !! १८४ ॥
श्रीमान्पाटलिपुत्रेऽभून्नृपो विक्रमकेसरी।
तस्योचितोऽभवत्पुत्रः श्रीपराक्रमकेसरी ॥ १८५ ॥
प्रियः क्रीडाशुकस्तस्य बभूव भुवि विश्रुतः ।
सर्वशास्त्रेषु कुशलः कलालु च विचक्षणः ॥ १८६ ।।
कान्ताप्रसादनोपायप्रगल्भो नर्मकोविदः ।
अतीतानागतज्ञानपरिनिष्ठितमानसः ॥ १८७ ॥
राजपुत्रः पप्रच्छ भार्या मे का भविष्यति ।
इति पृष्टः शुकः प्राह निजपक्षाङ्घ्रिभिर्मुहुः ॥ १८८ ॥
कुर्वन्मरकताबद्धमिव काञ्चनपञ्जरम् ।
राज्ञश्चन्द्रावलोकस्य मगधाधिपतेः सुता ॥ १८९ ॥
चन्द्रप्रभा नाम विभो भाविनी ते बधूरिति ।
तच्छ्रुत्वा राजतनयो वशगोऽभून्मनोभुवः ॥ १९ ॥