पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
माशाचत्याम-बेतालपञ्चविंशतिका ]
३०१
बृहत्कथामञ्जरी ।

चित्तसंवर्धनं यच्च यञ्च नेत्ररसायनम् ।
चिराय निरनुक्रोशः सहते तद्विधिः कथम् ॥ १६५ ॥
निर्यातजीवितां बालां पतितां कदलीमिव ।
तत्कान्तिचन्द्रिकाचन्द्रचकोरा शुशुचुर्द्विजाः । १६६ ॥
एकस्ततो ययौ दुःखी जटाभस्मविलेपनः ।
अन्यस्तदस्थीन्यादाय तीर्थाय प्रययौ कृती॥ १६७ ॥
श्मशाने चापरस्तस्थौ तद्भस्मशयनाश्रयः ।
रागिणां किमकार्ये हि स्त्रिया संहृतचेतसाम् ॥ १६८ !
प्रथमः पृथिवीं भ्रान्त्वा भस्मस्मेरशरीरकः ।
रुद्रशर्माभिधानस्य गृहं प्राप्तो द्विजन्मनः ॥ १६९ ॥
तत्रोपमन्त्रितस्तेन प्रस्तुतो भोक्तुमैक्षत ।
क्षिष्ट तज्जायया वह्नौ पुत्रं रोदनकोपतः ॥ १७० ॥
तस्मिन्निःशेषनिर्दग्धे भोजनाद्विरतो व्रती ।
उयाच चण्डालगृहं प्राप्तोऽहमशनाशया ॥ १७१ ॥
इत्याकण्ये गृहस्थोऽपि जग्राह निजपुस्तकम् ।
सिद्धमन्नं समुद्धृत्य ततः पुत्रमजीववत् ।। १७२ ।।
दृष्टेति विस्मितः क्षिप्रं ध्यात्वा रात्री जटाधरः ।
त मन्त्रमनयत्कान्ताजीवनायाशु पुस्तकात् ।। १७३ ॥
सोऽध संप्राप्य तरसा तत्स्मशानमभोजनः ।
ददर्श तीर्थादायातमेकं तत्र निवासिनम् ।। १७४ ।।
तावपास्यः प्रियाभस्मकूटोपान्तात्स मन्त्रवित् ।
रजश्चिक्षेप येनासौ समुत्तस्थौ द्विजात्मजा ॥ १७5 ।।
लावण्यललिताकारां मन्मयानलदीपिकाम् ।
पीयूषकालकूटाङ्कां दुग्धाब्धिलहरीमिव ॥ १७६ ॥
वदनप्रतिमा चन्द्रो रणन्नूपुरमेखलाम् ।
नलिनीमिव कामस्य विलोलनयनोत्पलाम् ।। १७७ ॥