पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
काव्यमाला ।

इति तेन नृपः पृष्टो बभाषे गतसंभ्रमः ।
राजपुत्रः प्रिया चास्य न वाञ्चौ मन्मथाकुलौ ॥ १५३ ।।
प्रभुभक्तितो धीमान्मन्त्रिपुत्रोऽप्यकल्मषः ।
कर्णोत्पलस्य नृपतेः पातकं तत्प्रमादिनः ॥ ११ ॥
यो न पश्यति चारेण राजवृत्तान्तमन्धवत् ।
इति मौने परित्यक्ते राना तूर्णमलक्षितः ।
स वेतालस्तरोरग्रे तथैवोल्लम्बितः स्थितः ॥ १५५ ।।
इति प्रथमो वेतालः ॥ १॥
भूयो वृक्षमथारुह्य तमादाय ययौ नृपः ।
स च स्कन्धयतः प्राह नरेन्द्र श्रूयतामिति ।। १५६ ॥
ब्रह्मसेनाप्रहारेऽभूत्कालिन्दीकूलसंश्रये ।
अग्निस्वामीति विप्रेन्द्रो दाता श्रुतिविदां वरः ॥ १६७ ॥
तस्य मन्दारवत्याख्या पुत्री दिव्योचिताभवत् ।
कान्ताः मन्दारमालेव नेत्रषट्दहारिणी ॥ १९८ ॥
रूपेण विश्रुतां दिक्षु तामायतविलोचनाम् ।
अयाचन्त द्विजवरा बहवः सत्कुलोचिताः ॥ ११९ ॥
ततः कदाचित्तरुणाः कान्तिमन्तो द्विजास्त्रयः ।
मिथो दर्पेण' संक्रान्ता इवातुल्याकृतिश्रियः ॥ १६ ॥
कन्याजनकमभ्येत्य सुन्दरी तां ययाचिरे।
ममैवासौ ममैवासाविति स्पर्धानुबन्धिनः ॥ १६१ ।।
एकस्मै चेद्ददास्येनां द्वौ मृतावेव विद्धि नौ ।
इति तेषां समाकर्ण्य पिता तां न ददौ भयात् ॥ १६२ ॥
तोषितां दयनानन्दसौन्दर्यामृतवाहिनीम्
सदा विलोक्य प्रययुस्तत्रैव विहिताश्रयाः ॥ १६३ ॥
ततः कालेन सा धातुर्नैर्धुण्यात्पेशलाकृतिः ।
जगाम पञ्चतां बाला लोचनास्तोत्सवैः सह ॥ १६ ॥


वि झिलिस वा. ११. 'मेवायत्तो क. ३. 'ज्वलाः क. ४. 'तेऽपि तां' क.