पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशातच त्याम्-वेतालपञ्चविंशतिका ।
२९९
बृहत्कथामञ्जरी ।

कस्येयमिति पृष्टेन निर्देश्योऽहं त्वया सखे ।
इति तेन विसृष्टोऽसौ विपणे समदर्शयत् ॥ १४०॥
राजपुत्रोऽपि तत्कालं छन्नवेषादलक्षितः ।
तां दृष्ट्वा राजपुरुषैः पृष्टः कस्येयमित्यथ ।। १४.१
तं. कूटव्रतमस्येत्य गुरोरस्येत्युवाच तान् ।
सोऽपि पृष्टोऽवददाजा स्वयसेत्य शृणोतु मे ॥ १४२ ।।
इति तद्वचसा. तूर्ण नृपं प्राप्तवाच सः !
राजस्तव पुरे छन्ना दन्तघाटकपुत्रिका ॥ १४३ ॥
डाकिनी भ्राम्यति सदा रजनीघु दिगम्बरा ।
इहाकृष्य विसृष्टोऽसावेकदा त्वत्युतोऽनया १४४ ॥
तत्कोपाच त्रिशूलेन सया गाने समाहता ।
इदं चाभरणं तस्या मया सुबहुमौक्तिकम् ॥ १४९ ।।
(पा भीता पलाय्यासौं पितुर्वेश्म पुनर्गता)।
निस्थितां पुरात्यारा सा स्त्री न वधमर्हति ॥ १६६ ।।
इति कर्णोत्पलो राजा श्रुत्वा कोपानलाकुलः ।
स्त्रीभिर्विज्ञाय तदात्रे प्रत्ययां त्रिशिखाहतिम् ॥ १४७ ॥
पद्मावर्ती स्वनगरानिःसार्योड्रान्तमानसाम् ।
विवासितां च तां पश्चाची स्ववेषौ प्रजग्मतुः ।। १४८॥
समलापा प्रतीपौधैः कुर्वाणा ऋन्दितैदिशः।
आद्यराजस्य पुत्रस्तां सहितो मन्द्रिसूनुना ॥ १४९ ॥
ततो वाराणसी गत्वा विललास तया चिरम् ।
संग्रामवर्धनोऽप्यस्याः पिता तद्दुःखवैह्निना !! १५० ॥
स्फुटितात्मा व्यसुरभूदयितानुगतः क्षणात् ।
कथयित्येति देतालः पप्रच्छ वसुधाधिपम् ॥ १५१ ॥
सुताशोकविपन्नौ तौ कस्य पापाय भूपते ।
ज्ञात्याग्यब्रुयतो मूर्धा शतधा ते भविष्यति ॥ १५२ ॥


१. एतत्कोष्टान्तर्गतः पाठः क-पुस्तके त्रुटितः.