पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९८
काव्यमाला ।

अभूदुद्भिन्नसंभोगकुसुमस्मेरमञ्जरी ।
ततः कदाचित्सस्मार राजपुत्रो बहिः स्थितम् ॥ १२८ ।।
मन्त्रिपुत्रोऽपि देशेऽस्मिन्कथमेकश्चरेदिति ।
ज्ञात्वान्यमनसं कान्तं पृष्ट्वा चे श्रुततत्कथा ॥ १२९ ।।
उवाच किं त्वया नासौ सुहृन्मे प्रकटीकृतः ।
पूज्यः स धीमतां धुर्योऽज्ञासीत्तत्तन्मदिङ्गितम् ॥ १३० ॥
सत्कृते प्राहिणोम्यद्य विचित्रं त्विष्टभोजनम् ।
उक्त्वेति विससर्जाशु राजपुत्री तदस्तिकम् ।। १३१ ॥
विचित्रमाल्यताम्बूलं भोजनं च खयं कृतम् ।
मन्त्रिपुत्रस्तदादाय राजपुत्रमभाषत ।। १३२ ॥
अहो त्वया कृतं जाड्यं यदहं प्रकटीकृतः ।
(विषदिग्धमिदं सर्व तया मे महितं सखे) ॥ १३३ ॥
न सहन्ते हि रागिण्यो भर्तुः प्रेमपदं जनम् ।
इत्युक्त्वा तच्छुने प्रादात्सोऽपि तेनाभवन्धसुः ॥ १३४ ॥
ततस्तौ कोपकलुषौ तदालोक्य बभूवतुः ।
कोत्पलस्य नृपतेरस्मिन्नवसरे प्रिये ॥ १३१ ।।
पुत्र दैवाहिवं याते राजपुत्रं सखावदत् ।
अद्य तस्यास्त्वया गत्वा मत्ताया भूषणावलीम् ।। १३६ ॥
समादाय नखैः कार्य त्रिशिख लक्ष्म विग्रहे ।
इति तद्वचसा सथै कृत्वा राजसुतो निशि ॥ १३ ॥
गृहीताभरणः क्षिप्रं ततः प्राप्तस्तदन्तिकम् ।
व्रतीवेषोऽवीं गत्वा मन्त्रिपुत्रस्तभबवीत् ॥ १३८ ॥
आना मौक्तिकलतां नयैतां विक्रयावनिम् ।
प्रदर्शनीया सर्वत्र दालव्या न तु कस्यचित् ।। १३९ ।।


३. 'मि' के. ४. एतत्कोष्टान्ततः पाठा क-पुस्तके

व्यधान क.नध्या का