पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{rh|left=शशाङ्कवत्थाम्-वैतालपञ्चविंशतिका !]।|center= बृहत्कथामञ्जरी ।|right=२९७}

पश्यास्या हृदये न्यस्तं तया शोणाङ्गुलित्रयम् ।
इति श्रुत्वा पुनध्यायन्स तामायतलोचनाम् ॥ ११९ ॥
सहस मतां यातमनयद्यामिनीत्रयम् ।
सतो वृद्धा चतुर्थेऽह्नि गत्वा पुनरूषागता ॥ ११६ ॥
ताचुदाचाद्य याताहं तया संपूजिता भृशम् ।
तत्कालं स्फोटितालाने निर्गते मत्तकुञ्जरे ॥ ११७ ।।
हम्र्येण रज्जुमालम्व्य सा भीता विसतर्ज माम् ।
इति वृद्धागिरं श्रुत्वा विसृष्टो मन्त्रिमनुना ॥ ११८ ॥
तेनैव रज्जुपात्रेण स प्रापान्तःपुरं निशि।
चेटिकाभिः समुरिक्षतः प्रासादेन प्रविश्य सः ॥ ११९ ॥
न्यस्तस्फटिकपर्यन्तं विवेश मणिमन्दिरम् ।
दीपरनाशुकपिशे सुप्तककिमण्डले ॥ १२० ।
पाताल हव तत्रासौ तां भुजङ्गी व्यलोकयत् ।
प्रत्युद्गतां हिया ननां तां राजतनयोऽवदत् ।। १२१ ॥
सोत्कन्यकुंचविन्यस्तहस्तमत्रस्तविभ्रमाम् !
अयि मानसदुग्धाब्धिचन्द्रिक लज्जयां नताम् ॥ १२२ ॥
उत्सालय दृशं सन्तु दिशः कुंबलयाकुलाः ।
इत्युक्त्वा रलपात्रेण मालतीस्मितबुन्दरी, १२३ ।।
अपाययतां माध्वीकं पपीच धनसौरभम् ।
हठात्कण्ठमहानन्दमीलितार्धविलोचनाम् ।। १२४ ॥
मदारुणकपोलां तो चुचुन्छ सरसं ततः ।
सा तेन कुञ्जरेणेव समाक्रान्ता सरोजिनी ॥ १२६ ।।
चकाशे निकणरकाञ्चीकलहंसकुलावली ।
अकृत्रिमविलासाङ्कमशिक्षितकलाक्रमम् ॥ १२६ ।।
अविभागाङ्गसमग बभूव सुरतं तयोः ।
एवं प्रतिनिशं श्यामा तेन समागता ।। १२७ ॥


१. कण्ठविन्यस्तहस्तामभ्यस्तवि' क. २. 'कम्पे' क. ३. 'मूडचित्तेन संगता' क.