पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९६
काव्यमाला ।

संग्रामवर्धनी मन्त्री राज्ञोऽसौ दन्तघाटकः ।
तस्य पद्मावती नाम तनयास्ति सुलोचना ॥ १०२ ॥
तगृहे गर्भदास्यस्मि सर्वं जानामि तत्कुले ।
इति वृद्धावचः श्रुत्वा निजवृत्तं निवेद्य तौ ॥ १०३ ॥
चक्राते दत्तसंकेतौ तस्यास्तामेव दूतिकाम् ।
सा तदन्तःपुरं गत्वा तस्यै सबै निवेद्य यत् ॥ १०४ ॥
पद्मावती चे तच्छ्रुत्वा मिथ्याकोपाकुलाभवत् ।
आ वृद्धदासि दुःशीले बालां मामबमन्यसे ॥ १०॥ १॥
उक्त्वेति कर्पूरकरातां जधान कपोलयोः ।
ततो भन्ममुखी वृद्धा समभ्येत्य निजं गृहम् ॥ १०६ ॥
ताभ्यां सर्वं यथावृत्तं साश्रुनेत्रा न्यवेदयत् ।
राजपुत्रस्ततः प्राह निश्वासग्लपित्ताधरः ॥ १०७ ।।
अहो मे पुण्यहीनस्य वृथा जातोऽयमुद्यमः ।
स्वस्ति तुभ्यं मम प्राणाः कापि गन्तुं समुद्यताः ॥ १८ ॥
न सहे विरहं सद्यस्तया छिन्नो मनोरथः ।
इति मन्त्री वचः श्रुत्वा राजपुत्रेण भाषितम् ॥ १०१॥
रहस्तमवदद्धैर्य भज सिद्धं समीहितम् ।
दशास्या गण्डयोः पश्य सकर्पूराः कराङ्गुलीः ॥ ११ ॥
तयोक्तं शुक्लपक्षस्य दश शेषा निशा इति ।
अलक्षितः कृष्णपक्षे ध्रुवं तां समुपेष्यसि ॥ १११ ॥
इति तेन कृताश्वासो राजधुन्नो व्यलम्बत ।
लतो दशलु यातेषु वासरेषु यदृच्छया ॥ ११२ ॥
कन्यकान्तःपुरं गत्वा वृद्धा पुनरुपाययौ ।
अलक्तकाङ्कमालोक्य हृदि तस्यात्रिचन्द्रकम् ॥ ११३ ॥
रहो मन्त्रिसुतः माहं सोत्कण्ठं भूमिपात्मजम् ।
सखेऽस्या रजसा रात्रिन्नयमावर्तते तनुः ॥ ११४ ॥


'कारा के. ६. बिनः शु' क. ३ 'पुण्डकम्' का ४, रजखला रात्रित्रयमा क.