पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९४
काव्यमाला ।

हवा विवेश व्याकोशकुल्लवल्लीहतं वनम् ।
तस्याविदूरे फुल्लानं ददर्शाबिमलं सरः ॥ ७८ ॥
स्फाटिकं वनदेवीनामिव विश्रमदर्पणम् ।
तत्सरः लातुमायातां कन्या दासीशतैर्वृताम् ॥ ७९ ॥
आलुलोके नृपसुतः शशिलेखामिवोद्गताम् ।
तस्याः कुवलयच्छायैः कटाक्षैश्वटुलांशुभिः ॥ ८ ॥
नृत्यच्छिखण्डिमालेब चकासे काननस्थली ।
अधरांशुभिराकाशे निबिडैबिम्बबन्धुभिः ॥ ८१ ॥
या बभारेव लावण्यजलधौ वि[मावलीम् ।
जातौ यस्याः कुचौ कान्तिबापीकमलकोरकौ ॥ ८१ ।।
ययोदोर्युगलं धत्ते विसकाण्डकुटुम्बताम् ।
उवाह या तनुलता भृङ्गाली रोमवल्लरीम् ।। ८३ ॥
पश्चाद्विषतां वैभल्याद्विम्बितामिव वेणिकाम् ।
या हंसगामिनी रेजे निःक्वणन्मणिनूपुरा ॥ ८४ ॥
श्रीरिवाम्बुजसंचारलमा सिञ्जानषट्पदी ।
तां विलोक्येन्दुवदनां नयनानन्दकौमुदीम् ॥ ८५ ॥
सहसा राजपुत्रोऽभूस्किमप्युल्लासि मानसः ।
सापि तं वीक्ष्य कामस्य प्रतिमान धनुर्धरम् ॥ ८६ ॥
बभौ बालानिलालोलवल्लीव ललिताकृतिः ।
लीलावती समादाय सा निज शेखरोत्पलम् ॥ १७ ॥
कणे चकार लोलाक्षी सचिवं लोचनश्रियः ।
अफ्नीय ततः कर्णान्मुहुर्दन्तैरवोदयत् ॥ ८ ॥
संविधमं च चिक्षेप संण्डितः पादयोस्तले ।
ततोऽप्याहृत्य सा कन्या निदधे तत्कुचस्थले ॥ ८९ ॥


१. शिकलोटिक क "किंचिदुलासमान का