पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-बेतालपञ्चविंशतिका ।
२९३
बृहत्कथामञ्जरी।

 
विमुक्तहस्तं संताशादितीवाधोमुखं स्थितम् ।
तरुमारुह्य तं मुक्त्वा कण्ठपाशभपातयत् ॥ १५ ॥
पतितः सोऽथ चुक्रोश हा हतोऽस्मीति सव्यथम् ।
करुणाकूणितमना भूपालोऽप्यनुरुह्य तम् ॥ ६ ॥
मुहुर्मुहुः परामुश्य निनिन्द निजसाहसम् ।
सं च क्षणादट्टहास मठको विकटं व्यधात् ।। ६७ ॥
भूतानां समभूधेन स्पष्ट कण्टकिता तनुः ।
ततस्तूर्णमदृश्योऽसौ तस्मिन्नेव लतान्तरे ॥ १८ ॥
तेनैव कण्ठपान तथैवोल्लम्बितः स्थितः ।
देतालमायां विज्ञाय पुनरारुह्य पादयम् ॥ ६९ ॥
तमादाय नृपः स्कन्धे जवेन महता ययौ ।
स्कन्धस्थितस्तमवदद्वेतालः शृणु भूयते ॥ ७० ॥
कथयामि कथां तुभ्यं दूरेऽध्वनि सुनन्दिनीम् ।
अस्ति वाराणसी नाम श्रीकण्ठदयिता पुरी ॥ १ ॥
गौरीकृताहिमगिरिस्पारैः स्फटिकमन्दिरे।
प्रतापमुकुटो नाम तस्यामासीन्महीपतिः ।। ७२ ॥
द्यौर्यप्रतापमुकुटा ससंध्येवानिशं बभौ ।
तस्य भूमिपतेः प्राणप्रिया सोमप्रभाभवत् ।। ७३ ॥
शक्तिः पुष्पशरस्येव त्रैलोक्यविजयोधमे ।
युतिमान्वज्रसुकुटस्तस्यां तेन सुतोऽजनि ॥ ७४ ॥
स्मरेन्दुमाधवा यस्य लज्जन्ते रूपसंपदा ।
सस्य बुद्धिशरीराख्यो मन्त्रिपुत्रः सखाभवत् ।। ७६ ।।
अद्वितीयः सदा प्रेमलीलाविश्रम्भसंपदाम् ।
कदाचित्तेन सहितः स ययौ मृगवारसात् ।। ७६ ॥
वनं कुरङ्गमातङ्गशार्दूलशरभाकुलम् ।
स तत्र चापक्रेङ्कारक्रूरकोपान्मृगेश्वरान् ॥ ७७ ॥