पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९२
काव्यमाला ।

बहुच्छिद्रं घनाश्लिष्टप्रेतराशिनिरन्तरम् ।
पलाशशतसंबाचं चितानिःशेषितद्रुमम् ॥ १२ ॥
शिवाभिर्व्याप्तमशिव प्रान्तान्तकमनन्तकम् ।
निकुम्भकुचकुम्भामिवियुलश्रोणिभिर्मुहुः ॥ १३ ॥
दिगम्बरामिनारीभिः कल्पिताकाण्डताण्डवम् ।
गृध्रगोमागहनं काककककुलाकुलम् ॥ १४ ॥
प्रमत्तभूतवेतालं मालामेलकमालितम् ।
पिशाचशाकिनीयुक्तं लडड्डमरुमण्डलम् !! १५ ॥
स्पष्टाहासमकटं क्रीडच्चक्रेश्वरीचयम् ।
भयंकरं भयस्यापि विमोहस्यापि मोहनम् ॥ १६ ॥
तमसोऽप्यन्धतमसं कृतान्तस्यापि कम्पनम् ।
दृष्ट्वा पितृवनं धोरं डाकिनीगणसेवितम् ॥ १७ ॥
शान्तिशीलं वटतले सोऽपश्यत्कृतमण्डलम् ।
दृष्ट्वा प्रणम्य तं प्राह प्राप्तोऽहं करवाणि किम् ॥ १८ ॥
इति श्रुत्वावदद्भिक्षुहर्षव्याकोशलोचनः ।
राजन्सत्त्ववता धुर्य धैर्येणानेन तेऽधुना ॥ १९ ॥
मन्ये समस्तधीराणां यशसां केतुराहितः ।
क्रोशमात्रमतिक्रम्य दक्षिणाशामुखः प्रभो ॥ ६ ॥
इतो गच्छ तमानेतु शिशिपोल्लम्बितं नरम् ।
इति तस्य गिरा राजा धोरे तमसि सोल्मुकः ॥ ६१ ॥
गत्वा ददर्श तं शुष्क वृक्ष नीचमिवोद्धतम् ।
दरिद्रमिव विच्छाये पिशाचमिव भीषणम् ॥ ६२
कुकाव्यमिव विश्लिष्टं विशालं शिशिपातरुन् ।
भुमाननं चावनत सरलसस्तदोर्युगम् ।। ६३ ।।
दीर्घायपादं तैस्थाग्रे स चापश्यन्नृपः शवम् ।
भुवि पुण्यं मया नोतं हस्तेनाप्तं न किंचन ।। ६४ ॥


१ मा क. १, सेतु' क. ३. शाखाने' क. ४. 'वात' का