पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९०
काव्यमाला ।

क्षान्तिशीलव्यवसितं चित्रं ते प्रतिभाति में।
कि रलैः पृथिवीमूल्यैः प्राप्तुमिच्छस्यतः परम् ॥ २७ ॥
इति पृष्टो नृपतिना श्रमणः प्राह तं नरः।
बद्धप्रतिज्ञमाधाय निजवाञ्छितसिद्धये ॥ २४ ॥
अनुल्लङ्घितमर्यादाः परायासासहिष्णवः ।
सेप्या न कस्य नृपते त्यादृशाः शौर्यसागराः ॥ २९ ॥
परार्धायोञ्चवपुषः सर्वाशापोषशालिनः ।
राजन्दुर्गतिमित्रस्य त्वादृशः को न याचकः ॥ ३० ॥
अस्यां कृष्णचतुर्दश्यां श्मशाने मन्त्रसाधना ।
ममास्ति काचिनत्र त्वं द्वितीयो भव साधकः ॥ ३१ ॥
महावटतरोर्मूले स्थिते मयि निशि त्वया ।
आमन्तव्यं महावीर करवालविभूषिणा ॥ ३२ ॥
इत्याभाष्य तथेत्युक्त्वा मापालेन प्रतिश्रुते ।
श्रमणः प्रययौ हृष्टः प्रवेष्टुं मन्त्रसाधनम् ॥ ३३ ॥
ततस्तस्यां निशि नृपः खङ्गी रुचिरकुण्डलः ।
तं ययौ भूतलशशी यशोविषदचन्द्रिकः ॥ ३४ ॥
चलद्वजांशुकटकच्छायाशबलिताम्बरः ।
किरीटमणिसच्छायो रत्नाद्विरिव जङ्गमः ॥ ३५ ॥
तमालकलितोत्तसकालागरुविलेपनः ।
नीलांशुको गजच्छायाव्याप्ताकार इवेश्वरः ॥ ३६ ॥
रराज ब्रजनस्तस्य लारहारकरो निशि ।
तत्कालोल्लासिवपुषा सत्वेनेन प्रकाशितम् ॥ ३७ ॥
कस्तूरीक्षोदता गात्रे जयकुञ्जरतां पुरः ।
मायूरच्छत्रता मूर्ति मुहुस्तस्य ययौ तमः ॥ ३८ ॥
मौलिमालापरिमलयालीनालिकुलैर्बभौं ।
तात्रामङ्गले लक्ष्याः स्वस्तिवादाक्षरैरिव ॥ ३९ ॥


सुबक अगति,

विक-होत्तः क.