पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाश्वत्याम्-वेतालपञ्चविंशतिका 1]।
२८९
बृहत्कथामञ्जरी

सुपर्णविचंया सोऽथ रक्षितः कृपया मया ।
कृतज्ञः प्राह मां कोऽपि देवस्त्वं सत्त्वसागरः ।। १५ ॥
बेत्तालोत्थापिनीं विद्यां गृहाण वं मयार्पिताम् ।
अधीरे तु मया नै सार्पिता त्वं तु धैर्यवान् ॥ १६ ॥
इति श्रुत्वाइमवदं वियुक्तस्य सुहृज्जनैः ।
विद्ययाः किं मम सखे ज्योत्स्नयेव विवस्वतः ॥ १७ ॥
इत्यसौ भत्कथां श्रुत्वा विस्तीर्णा ब्राह्मणोऽन्नवीत् ।
कियन्मानं सुहृत्सङ्गो विद्यया सर्वमाप्यते ॥ १८ ॥
श्रीत्रिविक्रमसेनोऽभूत्रतिष्ठानपुरे नृपः ।
रत्नाकरः प्रसूतिर्यो लक्ष्म्याः सत्त्ववतां वरः ॥ १९ ॥
यद्यशोदर्षणतले तारहारजिभूषितैः ।
बिम्बितेव विभाति द्यौरिन्दुमार्तण्डकुण्डला ॥ २० ॥
रामाभिरामं तं द्रष्टुं श्रमणो नित्यमाययौ ।
इच सीताग्रहच्छमच्छन्नो लङ्कापतिः पुनः ॥ २१ ॥
क्षान्तिशीलाभिधानोऽसौ तस्यास्थाने ददौ सदा ।
फलं नरपतिस्तच्च कोशाध्यक्षकरेऽक्षिपत् ॥ २२ ॥
इति संसेवमानस्य ययुभिक्षोः समा दश ।
कदाचित्तत्फलं राज्ञः प्राय केलिकपिः करात् ॥ २३ ॥
तेहन्तदलितात्तस्माहिव्यं रवं विनिर्ययौं ।
तत्कान्त्या छुरितः सों बभूव स्थानमण्डपः ॥ २४ ॥
नृपः कोशेशमाहूय फलान्यन्यात्ययावत ।
सोऽप्यदात्तदलचयं राज्ञे फलदिनिर्गतम् ॥ २५॥
दत्त्वा कोशेश्वरायैव रत्नानि त्यागसागरः।
पुनः श्रमणमायातं तं पप्रच्छ महीपतिः ।। २६ ।।


२. क. ३.'षा क.

१. धैर्यसा क. विचक्षुषः क.