पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाश्वत्याम्-वेतालपञ्चविंशतिका ॥
२८७
बृहत्कथामञ्जरी ।


तत्कथां च निशम्यैव चक्षुष्मान्स भविष्यति ।। ८७९ ।
प्रचण्डशक्तिरुत्तीर्य नागशापमहोदधिम् ।
आराधितस्त्वया भक्त्या पूर्व चन्द्रार्धशेखरः ।
अतस्तवैषा शापान्ते राजन्गन्धर्वराजता ।। ८७६ ॥
उक्त्वेत्यदर्शनं याते मुनीन्द्रे सोऽभवद्गनः ।
सोऽहमेवेह कालेन स्वया पुण्यः समागतः ॥ ८७७ ॥
कथयित्वेति नागेन्द्रो गन्धर्षः सहसाभवत् ।
प्रचण्डशक्तिस्तद्वृत्वं श्रुत्वाच्च सुलोचनः ।। ८७८ ॥
भृगाङ्गदत्तस्तच्छ्रुत्वा विलोक्य च महाद्भुतम् ।
प्रचण्डशक्तिमालिङ्गय प्रीतिं पाप सहानुगः ।। ८७९ ॥
तां शशाङ्कवती कान्तामचिरात्समवाप्स्यसि ।
मृगादत्तमवदद्गन्धर्व प्रणयादिति ।। ८८० ॥
स्मृतमात्रः समेष्यामीत्युक्त्वा तस्मिस्तिरोहिते ।
ध्यायन्मृगाङ्कदत्तोऽभूदानन्दामृतनिर्झरः ॥ ८८१ ॥
प्राग्जन्मपूजितमहेश्वरदिष्टदिव्य-
गन्धर्वभावसुभगेन विधाय तेन ।
सख्यं स पञ्च सचिवान्समवाप्य हृष्टः
शेषाप्तये विपुलसदसखः प्रतस्थे ॥ ८८२ ॥
प्रचण्डशक्तिसमागमः ! भीमभटाख्यायिका ॥२१॥

द्वितीयो गुच्छः।
अथ ब्रजन्दक्षिणाशां दयितावाप्तिदक्षिणाम् ।
मृगाङ्कदत्तो विपिनं विवेश सचिवैः सह ॥ १ ॥
ततो मध्याहविस्फूर्जप्रचण्डकिरणे खौ।
अध्वन्यवनितातापैस्ताप्यमान इवाखिले ॥ २ ॥


तदा त्वामाक्ष्यसे शापान्तगन्धर्वश्व भवि' क. २. 'देद्यमान' का