पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८६
काव्यमाला ।

लक्ष्मीकटाक्षशबलाः करवालपरम्पराः ॥ ८६३ ।।
वैरवहौ रणमुखे तेषां सुभटयज्वनाम् ।
विस्फारचायक्रेङ्कारमन्त्रा रेजुः करिखरैः ॥ ८६.४ ॥
चक्रुः शिरसि शूराणां पतितानि महीतले ।
जयश्रियो रक्तपङ्के पादन्यासोपलनमम् ॥ ८६६ ।।
ततो भीमभटोऽन्येत्य स्वयं समरशालिनः ।
रिपोश्चकत खड्रेन शिरो व्याकुलकुण्डलम् ।। ८६६ ॥
बिभ्राणस्तच्छिरो रेजे खड्गाने क्षिप्रसंकदम् ।
दर्शयन्निव वीराणां निजवीर्यतरोः फलम् ॥ ८६७ ॥
निपातितेऽथ समरभटे भटशतानुगे ।
लेभे भीमभटो राज्य राजमानः सुहृज्जनः ।। ८६८ ॥
मनोरमां प्रणम्याथ प्रहृष्टां तत्र मातरम् ।
प्रददौ शङ्खदत्ताय लाटराज्यमुदारधीः ।। ८६९ ॥
स्वयं स्थितः स रादायां पञ्चगौडमहीपतिः ।
दिशो भीमभटः सर्वा जित्वा साम्राज्यमाप्तवान् ।। ८७०
ततः कदाचिदैश्वर्यविलासोद्यानकौमुदीम् ।
हंसावली सेव्यमाने तस्सिन्मधुमदाकुले !! ८७१ ॥
यहच्छया समभ्यायादुत्तस्तेजसां निधिः ।
यद्विरा सर्पसत्रेऽभूद्भुजङ्गानां कुलक्षयः ॥ ८७२ ।।
स्वदर्शनविलम्बन राज्ञः कोपमुपागतः ।
मदद्विपो भवत्वाशु ते शशाप सरालयम् ॥ ८७३ ।।
सतः प्रसादितो यत्नान्मुनिर्भीमभटेन तम् ।
उवाच राजन्विपिने समाश्वास्य फलाम्बुभिः ॥ ८७४ ॥
मृगा दत्तसचिवं यदा स्वं तोषयिष्यसि ।


२. चापे केदारप्रथमोहारता थयौ । अभ्रष्टमालाडलिकानल-

मिनमहेश्वरान् । भूस्पर्श से कितांश्चकु: खेचरारणारेणवः तसिम्कोलाहले हेला समन्मीलितलोचनैः ।। चक्रे शिरसि शराणा क. ३. समरभटे भरणालुगे' क.