पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८४
काव्यमाला ।

निस्तीर्णस्तामवालोऽहं धातुः किं नाम दुर्घटम् ।
इत्युक्त्वा तं परिष्वज्य तद्वृत्तान्तं निशम्य च ।
शङ्खदत्तो नवं सर्व होस्वर्गममन्यत ।। ८४१ ॥
ततो भीमभहस्तन्त्र नागयात्रामहोत्सवे ।
कदाचित्सानुगोऽपश्यत्कन्यकां स्नातुमागताम् ॥ ८४२ ॥
सुतां हंसावली नाम चन्द्रादिलास्य भूपतेः ।
दासीसहसानुगतां राकां तारावृतामिव ।। ८४३ ॥
विलोललोचनच्छायालेखनीमिः स्मृताकृतः ।
जनस्य संकल्पपटे याभिरालिख्यते स्मरः ।। ८४४ ॥
मनोरथशताभ्यस्ता या यंलशतसूत्रिता ।
घटितव शशाङ्केन कान्तिस्फटिकपुत्रिका ।। ८४६ ॥
तां विलोक्य स पञ्चेषुसंरम्भाकुलितोऽभवत् ।
दुग्धाम्बुधिरिवारफारं चन्द्रकान्तितरङ्गितः ॥ ८४६ ।।
सा च तद्दर्शनारम्भप्रौढोद्भिन्नमनोभवा ।
हंसावली यथार्थाभून्नलिनीदलशायिनी ॥ ८४७ ॥
ततीकृतसंकेतो निशि भीमभटस्ततः ।
कन्यकान्तःपुरं प्राय विद्याभ्यासादलक्षितः ।। ८४८॥
रलदीपांशुकपिशे दिव्यगन्धाधिवासिते ।
तेत्र गान्धर्वविधिना भेजे तां चारुलोचनाम् ॥ ८४९ ।।
ततः कम्पाकुला तत्र सा तेनालिङ्गिता मुहुः ।
लज्जानिमीलन्नयना लेभे कामपि निवृतिम् ।। ८५० ॥
आकृष्यमाणा तेनास्था मेखला मधुरध्वनिम् ।


दैवावाप्तोऽस्मि परिकत्येव जातिकैः । विदारितो. दैवयोगात्वामहं समुपस्थितः ॥

ततः फलकछावने द्रष्टुं प्राप्ता पुरौकसाम् । नार्यस्तन्मध्यमा राजतनयां स ददर्श ह ।। स तो हंसावली नाम स्मरकेलिसरोजिनीम् । विस्तीर्णे जनसंकल्पपटे चोलिख्यते. हमर ॥ एवं शु-पुस्तके पाठ: पास क..