पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवत्याम्-भीमभटाख्यासिका ।
२७९
बृहत्कथामारी

अहं मृगादत्तस्य सचिवो दशमः सरखें।
प्रचण्डशक्तिनागस्य शापात्याप्तो दशामिमाम् ॥ ७८१ ॥
वृत्तान्तमात्मनः सर्व कथयत्यथ तेन सः ।
(प्रार्थितो द्विरदः प्राह निश्वस्य पृथु फूत्कृतम् ॥ ७८२ ।।।
राठायामभवद्भूपः श्रीमान्मभटाभिधः ।
अभून्मनोरथा नाम भाया तस्य मनोरमा)॥ ७८३ ।।
कदाचिदथ नानादिग्देशसंचारचञ्चुरः ।
नर्तकः कालको नाम तं नृपं द्रष्टुमाययौ ॥ ७८४ ॥
तत्सुता दासिका नाम तस्याग्रे वसुधापतेः ।
ननःहितवैकुण्ठवनिताकारभूमिका ॥ ७८५ ॥
अमृताहरणं सत्यमनया तु कृतं मुहुः ।
कुतोऽन्यथा करोत्येषा लावण्यनयनामृतम् ।। ७८६ ॥
इति संचिन्त्य तां राजा निदधे वल्लभापदे ।
एतदेवं श्रियः सारं यत्कामो न विमच्यते ॥ ७८७ ॥
स तया कण्ठलम्बिया लावण्योत्सवशीलया ।
मदावलोलः शुशुभे हलीव वनमालया ।। ७८८ ॥
ततो मनोरमाख्यायां ज्येष्ठो भीमभटाभिधः ।
लासिकायां च समरभटः शौर्यवतां वरः ।। ७८९ ॥
इति पुत्रेष्टियागेन पुत्रौ पाप स पार्थिवः ।
(स्पर्धानुबन्धसंनद्धौ भीमदुर्योधनादिव) ॥ ७९० ॥
कलाभिः शस्त्रविद्यामिरभूदीममटोऽधिकः ।
सौभाग्यातिशयान्मातुर्द्वितीयस्तु पितुः प्रियः ।। ७९१ ।।
ततः क्रीडानियुद्धेन प्राचा स्फोटितमस्तकम् ।
रक्तातलासिको दृष्टा पुत्रं राजे न्यवेदयत् ॥ ७९२ ।।


एतत्कोष्टान्तर्गतपाठः क-पुस्तके त्रुटितः. १. 'तं धृत' क. ३. 'निहन्य' क.

४. एतत्को ठान्तर्गतपाठः क-पुस्तके त्रुटितः ५. 'सुभटः नि' क...