पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७८
काव्यमाला ।

विचित्रकथवृत्तान्तमिति श्रुत्वा सविस्मयः ।
भृगाङ्कदत्तः परमां नीति प्राप सहानुगः ॥ ७६९ ।।
ततस्तेन सहान्यैश्च स विवेश महद्वनम् ।
तमालतालवलयश्यामलीकृतदिमुखम् ।। ७७० ॥
उत्तुङ्गतैरुसंघातरुद्धसूर्यांशुमण्डलम् ।
इन्द्रनीलशिलास्तम्भ तिमिरस्येव मन्दिरम् || ७७१ ॥
उत्फुलफुल्लशबल त्वङ्गङ्गीतरङ्गितम् ।
बहिबविलीनील केशवाशमिव क्षिलेः ।। ७७२ !!
तत्र सान्द्रलतापुञ्जनिकुळे कुञ्जराधिपम् ।
ददर्श मृगसंघानामिव संकेतमण्डपम् ॥ ७७३ ॥
(मनुष्यवचित्रगिरा भाषमाणं पुरः स्थितम् ।
नरमन्ध मुहुः प्रेम्णा समाधास्य फलाम्बुभिः ॥ ७७४ ॥
अपूर्वमथ संलापं श्रुत्वा गजमनुष्ययोः ।)
मृगाङ्कदत्तः प्रोवाच सचिवान्विस्मयाकुलः ॥ ७७५ ॥
अहो बत मनुष्योऽयमचक्षुः करिणासकृत् ।
संभाष्यते बन्धुरिव प्रेम्णा दत्वा फलोदकम् ॥ ७७६ ॥
प्रचण्डशक्तिसदृशः पुरुषोऽयं स एव वा ।
शृणुमस्तावदित्युक्त्वा किमेतद्वदतो मिथः ॥ ७७७ ॥
मृगाङ्कदत्तवचनादिति तेषु लतान्तरे ।
स्थितेषु गूढं स गजस्तमन्ध प्रणतोऽवदत् ।। ७७८ ॥
अहं जन्मान्तरे राजपुत्रो भ्रातृवधेच्छया ।
कृतवतत्रिनेत्रस्य शापात्प्राप्तोऽध हस्तिताम् ॥ ७७९ ॥
ब्रूहि तावत्स्ववृत्तान्तं पूज्यस्त्वमतिथिमम् ।
इति पृष्टो गजेन्द्रेण पाहान्छो बाष्पगद्गदः ॥ ७८० ।।


'श्रवि क. २. कदलीकुअरुद्धसूर्याशुमण्डलम् क. ३. एतत्कोष्ठान्तर्गतबाटः

सत्सखाय' क...शृणुध्वमनयोस्तुणे किमती बदतो मिय:' क.सिल कर