पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कपत्याम्-श्रीदर्शनाख्यायिका ।
२७३
बृहत्कथामञ्जरी ।

कालेनेमां नहीं प्राप्तः स चौरेण हतो निशि।
हास्ते चौरराजासौ बसुभूतिजाधमः।
पुत्राय दातुं च हृता तेनाहं पापबुद्धिना।
सच सार्थप्रमाथाय मत्पुण्यैस्तत्सुले मतः ॥ ७०८ ॥
अस्मिन्ससंशये स्थाने युवयोः कि भविष्यति ।
इत्याप्तदुःखादधिकरतापो में हृदि वर्तते ॥ ७०९ ॥
श्रुत्वेति तस्याः साकम्प ज्ञात्वा तामेव सोदराम् ।
अयौ मुखरको मोहं पितृप्रलयर्दुःखितः ॥ १० ॥
श्रीदर्शनेन सहसा संसिक्तः शीतवारिणा।
संज्ञामवाप्य भगिनी स तां वालामसान्त्वयन् ।। ७११ ।।
विधाय कृतकावास्थ्यं ततः श्रीदर्शनो निशि !
आनाय्य तस्मै चौरं च तत्सर्वं स्वधनं ददौ ॥ ७१२ ॥
मुमूर्योः किं वपेनास्य येन मे कल्पितं धनम् ।
तस्मिन्मृते गृहिण्यामि चिन्तयित्वेति देस्युपः ।। ७१३ ॥
प्रतिश्रयं गृहोपान्ते ददौं तस्य विधेर्वशात् ।
गृहीत्वा तौ च यद्दिष्टां जग्मतुः सधनौ निशि ॥ ७१४ ॥
ततो महाटवीं प्राप्य भिक्षित्वा यक्षयोषितम् ।
अवाप्य भोजनं यातौ मालबाधिपतेः पुरम् ।। ७१५ ।।
खसारमथ यद्दिष्टां प्रीतो मुखरको ददौ
श्रीदर्शनाय तौ दृष्ट्वा सानुरागौ परस्परम् ॥ ७१६ ।।
ततः प्रविश्य श्रीसेनपुरं वृद्धनिकेतने ।
श्रितास्ते शुश्रुवुर्भूपं यक्ष्मव्याधिनिपीडितम् ॥ ७१७ ॥
प्राप्तों मन्त्रधरस्तस्य झयव्याधिनिवृत्तये ।
उवाच सिद्धिर्नास्त्येव द्वितीय साधकं बिना ।। ७१८ ॥
इत्युक्ते तेन सततं यतेनापि परीक्षितः ।
न लभ्यते यदा वीरस्तदा नृपतिरेभ्ययात् ।। ७१९ ॥


१. मोषाय क. २. 'मोहितः क. ३. 'तस्करः क४. "निक्षिप्ता कमा.