पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७२
काव्यमाला ।

इत्येवमविनष्टेषु शरीरेषु मनोरथाः ।
पूर्यन्ते बेवसा पुंसां सखे किं परितप्यसे ॥ १९५ ॥
इति भूनन्दाख्यायिका ॥ १९ ॥
श्रुत्वा मुखरकत्येति लेभे श्रीदर्शनो धृतिस् ।
वैमल्यं मानसं याति सन्मत्तैः कतकैरिव ॥ ६९६ ॥
ततो मुक्त्वा तदानीतं मितं श्रीदर्शनी ययौ।
तेनैव सह शर्वर्या देशान्तरमलक्षितः ।। १९७ ॥
म्हाने माने धने याते खजने शत्रुतां गले ।
स्वदेशावस्थितिः पुंसां निदर्शनविडम्बना ।। ६९८ ॥
अट्टहासोऽवदद्दूराददृश्यः श्रेयसे सुतम् ।
इतस्त्वं त्वरितं गच्छ श्रीसेनं मालवेश्वरम् ॥ ३९९ ॥
कितवेभ्यः कृतस्तेन सर्वकामप्रदो मठः।
स्वयं स द्यूतकारोऽभूहाल्ये वैयसि विप्लुतः ॥ ७०० ।।
परव्यथां न जानाति न दृष्टः सवेदनः ।
गृहे निधीकृत भूमौ मातुस्ते रत्नभूषणम् ॥ ७०१ ॥
विद्यते तच्च पाथेयं गृहाण शुभमाप्स्यसि ।
इति पित्रा समादिष्टो यज्ञेणादृष्टमूर्तिना ॥ ७०९॥
स अजन्बहुसस्यात्वं ग्राम प्राप सुहृद्धृतः ।
तृष्णाकुलतत्तडागतटं प्राप्तां सुलोचनाम् ।। ७०३ ॥
सोऽपश्यत्कन्यको कामकेलिकाननवल्लरीम् ।
सा पृष्टा कौतुकातेन बभाषे हरिणेक्षणा !! ७०४ ॥
सुताहं पद्मगर्भस्य पद्मिष्टाख्या द्विजन्मनः ।
आता मुखरको नाम ममाभद्गुणिनां वरः ।। ७०६ ॥
द्यूतव्यसनसंतापाद्याते तस्मिन्दिगन्तरम् ।
मया सह तमन्वेष्टुं प्रान्तस्तातोऽखिला भुवम् ॥ ७०६ ॥


नम् .. २. व्यसनविप्लु' क. ३. 'धायित क. ४. 'इतक.