पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशाङ्कवत्याम-भूनन्दाख्यायिका।
२७१
बृहत्कथामञ्जरी ।

तत्रापश्यत्तरुलतालम्बिमयकलेवरैः ।
वापी रुधिरसंपूर्णी वसाविपुलकर्दमाम् ॥ ६८३ ॥
रजपात्रेण तत्पानं सा गृहीत्वा पुनः पुनः ।
तृपं पिब पिवेत्या न पपौ स च कूणितः ॥ ६८४॥
त्यजतो ध्रुवमश्रेयो भवतीति तयार्थितः ।
नादेदे सा च तत्पात्रं तस्य मूर्ति न्यपातयत् ॥ १.८५ ॥
नीत्वा च तं परां वापी चिक्षेप विमले जले।
निमग्नश्चोन्ममज्जासौ कूर्मसारसरस्तटे ॥ ६८६ ।।
खादृष्टमिवाशेषं ततः स्मृत्वा शुशोच सः ।
फूत्कृत्येव विधिप्राप्तं पश्चात्तापमुपागतः ॥ ६८७ ॥
ततस्तस्यासुरपुरीसंक्रान्तामोदशालिनः ।
गाने शिलीमुखाः पेतुः स्मरचापच्युता इव ॥ ६८८ ॥
कामानिमलिनाझारैरिव व्याप्तः स षट्पदैः ।
धूताप्रपाणिनों लेभे शर्म मर्माहतो यथा ॥ ६८९ ॥
अत्रान्तरे समभ्येत्य कश्चिन्मुनिकुमारकः ।
तमब्रवीत्कृपाविष्टो वैक्लव्यं नृप मा गमः ॥ ६९० ॥
कृष्णाजिनं गृहाणैतद्धृङ्गजालनिवारणम् ।
एकभक्तेन सततं न त्वया कारणत्रयी।
आराधिता समदृशा तेन विघ्नस्तवोत्थितः ॥ १९१ ॥
ब्रह्मोपेन्द्रत्रिनेत्राणामभेदाराधनान्नृप ।
अवाप्स्यस्यचिरेणैव कान्तां तां दैत्यकन्यकाम् ।। ६९२ ॥
मुनिसूनोरिति श्रुत्वा भूनन्दस्तन्मते स्थितः ।
विधाय सर्व पातालं बीतविघ्नः पुनर्ययौ ॥ ६९३ ।।
तत्र पूर्णेन्दुवदनां प्राप्य तामसुराङ्गनाम् ।
भेजे मनोभवोरः सबिलासरसोत्सवम् ।। ६९४ ॥


३. निधि क. ४. 'भाप्या सुखप्रदेः क.

५. धृतानिया' को 'यत्यिक महो क.