पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. कथापीठे-गुणाढ्यकथा ।।
२७
वृहत्कथामञ्जरी

 
तस्य शक्तिमती देवी वल्लभाभूच्छुचिस्मिता ।
यस्याः कटाक्षबाणेन जजम्भे विजयी स्मरः ॥ २० ॥
ततः कदाचिदानन्दसिन्धौ मधुपबान्धवे ।
आमोदमन्दरे काले कलिकालंकृते मधौ ॥ २१ ॥
देवीकुचस्थले राजा प्रफुल्ललकुचस्थले ।
विजहार स्मरोदारः स्वैरं हारिणि हारिणी ।। २२ ।।
राजपुत्री रतश्रान्ता वस्तकोत्पला ततः ।
अवाप निद्रामुद्याने बालानिलचलालका ॥ २३ ॥
सुखप्रसुप्तामभ्येत्य त भुजङ्गोऽदशत्करे ।
रम्यं छिनत्ति सहसा पापः कालकुठारिकः ॥ २४ ॥
स तया रहितो राजो चिरहक्षामविग्रहः ।
ब्रह्मचर्यवतः खमे ददर्श वरदं शिवम् ॥ २५ ॥
सिंहाधिरूढो विपिने सप्तवर्षः शिशुः स्थितः ।
अपुत्रस्य स ते पुत्रो भविष्यति चरान्मम ॥ २६ ॥
इत्युक्तवाक्यमालोक्य प्रणतः शंकरं नृपः
अपश्यत्काननं गत्वा बालं केसरिवाहनस् ॥ २४
डिम्भे च नलिनीखण्डक्रीडाडम्बरतत्परे ।
जिघृक्षुभूमिपालस्तं जघानेकेषुणा हरिम् ॥
शार्दूलो निहतस्तेन यक्षो भूत्वा वराकृतिः ।
त्वत्प्रसादादहं मुक्तः शापादित्यभ्यधान्नृपम् ॥ २९ ॥
शातनामास्मि यक्षः प्रान्धनदानुचरो चैने ।
मुनिभिः कन्यकाकामी शप्तः सिंहत्वमागतः ॥ ३० ॥
सिंहीभूत्वा च सा कन्या शिशुं हरिणलोचनम् ।
अजीजनदिमं काले मत्त एव महाबलम् ॥ ३१ ॥


बकुलस्थ स. २. सर्वस्थित्तः शिशु रस.

'शाती नृप