पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
काव्यमाला ।

स्वयं वृताहं नागेन ततो मे गर्भसंभवः ।
इत्युक्त्वा ध्यानमास्थाय ताभ्यां नागमदर्शयत् ॥ ७ ॥
सोऽब्रवीद्वासुकिमातृपुत्रोऽहं दयिता च मे ।
शापाद्विद्याधरवधूः कन्येयं युवयोः स्वसा ॥ ८ ॥
गणावतारः पुत्रोऽस्या भविष्यति गुणाधिकः ।
उक्त्वेत्यदर्शनं या भुजङ्गे मामसूत सा ॥ ९ ॥
मज्जन्मावधिशापौ च वत्सगुल्मौ निज ततः ।
प्राप्तौ विद्यावरपदं कालेन जमनी च मे ॥ १७ ॥
ततो निखिलचिंग्रानामाश्रयो वेदपारगः ।
शातवाहनभूपालं द्रष्टुं यातोऽस्मि तत्पुरम् ॥ ११ ॥
तत्राशृणवमाश्चर्ये कलाविद्याश्रयाः पथि ।
कथाः पुण्यगृहयुतगीतवाधादिजीविनाम् ॥ १२ ॥
कश्चिदाह घनातोधतेतवाद्येऽस्मि कोविदः ।
कश्चित्प्राह प्रगल्भोऽहमेक एवं धनार्जने ॥ १३ ॥
उवाच कश्चिद्विक्रीय गतासुं मूषकं पुरा ।
चणकैर्हैमकोटीनां प्रभुरवास्मि भूरिदः ॥ १४ ॥
कश्चित्रोवाच बिक्रीय धनिनो मुग्धकामुकान् ।
वेश्यागृहेषु मतिमान्दातातीव भजेऽस्मि तम् ॥ १५ ॥
शृण्वन्निति गिरतत्र नूपं वैश्रवणोपमम् ।
कपितय शिष्यैः सहितो द्रष्टाहं माहितां श्रितः ॥ १६ ॥
तत्र मन्त्रिपदं प्राप्य द्रष्टुमुद्यानमुत्तमम् ।
मया गोदावरीतीरे कात्यायिन्या विनिर्मितम् ॥ १७ ॥
इति श्रुत्वा कथामध्ये काणभूतिरुवाच तम् ।
स सातवाहनामख्या को प्राप्तो नरेश्वरः ॥ १८ ॥
इति पृष्टो गुणाढ्यस्तं प्रोवाच चिकचद्युतिः ।
दीपकर्णाभिधो राजा हरपूजारतोऽभवत् ॥ १२ ॥


तु पुत्री रेख. छतमाय ख, ३. साथ ख