पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. कथापीठे-गुणायकथा ।।
२५
वृहत्कथामञ्जरी

ततो देवीप्रसादेन दृष्टस्तव शापमुक्तये।
स्वस्ति तेऽस्तु तनुं त्यक्त्वा प्रयाम्येष निलं पदम् ॥ २२० ।
संगतस्त्वं गुणाढ्येन न चिरात्प्राप्स्यसि श्रियम् ।
उक्त्वेत्यामध्य संहृष्टः काणभूतिर्ययौ वनम् ॥ २२१ ।।
महर्षिभिर्मोक्षकथाः कृत्वा दृष्ट्वाथ पार्वतीम्
सर्वत्र ज्ञाननिधूतविकारः स्वपदं ययौ ॥ १२२ ।
इति वररुचिरुग्रशापमुक्तो धनपटलादिव निर्गतः शशाङ्कः ।
अविकलनिजबोधदुर्गसिन्धुः शिवपदमेत्य बभूव निस्तरङ्गः ॥ २२.३ ।।
इति श्रीक्षेमेन्द्रविरचितायो बृहत्कथायां कथापीठलम्बके वररुचिमुक्तिर्नाम
द्वितीयो गुच्छः ।
तृतीयो गुच्छः।
माल्यवान्पार्वतीशापादवतीर्य महीतलम् ।
अमात्यः सुचिरं भूत्वा शातवाहनभूपतेः ॥ १ ॥
गुरुर्गुणवता लोके गुणाढ्य इति विश्रुतः ।
कागभूति समासाद्य शापबन्धादमुच्यत ।। २ ।।
जातिस्मरः स पृष्टोऽथ कथान्ते काणभूतिना ।
उवाच निजवृत्तान्तं कथां श्रुत्वा हरोदिताम् ॥ ३
अभूतां दाक्षिणात्यस्य द्विजाले सोमशर्मा
वत्सगुल्मामिधौ पुत्रौ श्रुतार्था कन्यका तथा ॥ ४ ॥
गते सभार्ये कालेन त्रिदिवं सोमशमथिए ।
श्रुतार्था यौवनवती भानोश्चिन्तावहाभवत् ॥ ६ ॥
कदाचिदथ कन्या सा गर्भिणी दुःखदा तयोः
बभूव पाण्डुरमुखी गर्भजम्भास्खलदतिः ॥ ६ ॥
परस्परं शङ्कितयोर्भ्रात्रोः सा प्राह लज्जिता ।


ख. यावे' खा. ५. 'सा पाण्ड-