पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
काव्यमाला ।

अथ राजानमामन्त्र्य राजकार्यविरक्तधीः ।
प्राप्तोऽसि पाटलिपुरीमश्रौषं गृहचेष्टितम् ॥ २० ॥
योगनन्देन निहले दिक्षु व्यक्ति गते त्वयि ।
माता ते स्वर्ययौ शोकादुधकोशाग्निमाविशत् ॥ २०९ ॥
उपवर्षेण कथितं श्रुत्तेत्यशनिदारुणम् ।
आगमं तपसा द्रष्टुं निःसङ्गो विन्ध्यवासिनीम् ।। २१० ॥
वियोगदावदग्धानां तृष्णासंतप्तचेतसाम् ।
सुखाय सर्वसन्यासः संतोषामृतनिहरः ॥ २११ ॥
ततस्तपोवनस्थोऽहं योगनन्दपुरोहितम् ।
वार्तां यदृच्छयायातमपृच्छे कौतुकाकुलः ॥ २१२ ।।
स प्रोवाच मया सृष्टस्त्वयि साते. स भूपतिः ।
प्रज्ञवा शकयलेन सः पुत्रो विनिपातितः ॥ २१३ ॥
चरणाघातकोपेन मूलोद्भुतकर्श प्रथि ।
स दृष्ट्वा कोपनं विप्रं मत्या श्राद्धे सहीपतेः ॥ २१४ ॥
न्यवेशयन्सुक्ताशिवं स्याणक्य नाम दुःसहम् ।
उपविष्टमधः पङ्क्त्यां शकटालस्तमचीत् ।। २.१९ ॥
राज्ञावमानितोऽसीति स च जवाल तद्गिरा ।
चाणक्यनाम्ना ते नाथ, शकटालगृहे रहः ।।
कृत्यां विधाय सप्ताहात्सुपुत्रो निहतो नृपः ॥ २१९ ॥
योमनन्दे अंशःशषे पूर्वनन्दसुतस्ततः ।
चन्द्रगुप्तो धृतो राज्ये चाणक्येन महौजसा ॥ २१७ ॥
एयमन्तर्ज्वलद्वैरः शकटालो महीपतिम् ।
निपात्य सानुगं बुद्ध्या तपसे स ययौ बनम् ॥ २१८ ॥
श्रुत्वेति केलिकल्लोलसंसारार्णवविभ्रमम् ।
रुद्राणीमागमं द्रष्टुं जरामरणचारिणीम् ॥ २१९ ॥


१. स्यगातू . २, कलितालोलसारासार