पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१.कथापीठे--योगनन्दपुत्रशापमोक्षौ ।।
२३
वृहत्कथामञ्जरी

करालकेसरसटः क्रुद्धदृष्ट्वंशुसंचयैः ।
विपाटयन्निव तमः शार्दूलोऽयमेधःस्थितः ॥ १९५ ॥
निद्रां भजस्व रात्र्यर्धं रक्ष्यमाणः सखे मया
त्वयि प्रबुद्धे रात्र्यधमहं स्वपिमि निर्भयः ॥ १९६ ॥
इति तद्वचसा तत्र सुप्ते राजसुतें हरिः ।
ऋक्षमाह प्रसुप्तोऽयं नरो मे त्यज्यतामिति ॥ १९७ ॥
सोऽवदद्धन्त निःसत्त्वो हरिणाधिपते भवान् ।
न हि मित्रगुहः पापं शाम्येजन्मशतैरपि ।। १९८ ॥
इत्युक्त्वा सोऽपि सुष्वाप प्रतिबुद्धे नृपात्मजे ।
राजन्यमाह सिंहोऽथ त्यजैन त्वं सुहृन्ममः ॥ १९९ ॥
इति सिंहवचः श्रुत्वा मित्रं सुप्तमशङ्कितम् ।
उत्सङ्गन्यस्तमूर्धानं राजसूनुरपातयत् ॥ २०० ॥
सहसा मालितस्तेन नखैविष्टभ्य पादपम् ।
उत्तीर्णो बलबदैवाहुःखा हि खलसंगतिः ॥ २०१ ॥
शशाप कुपितोऽभ्येत्य तमृक्षो विगतत्रपम् ।
यो ज्ञास्यति कथामेता स ते त्राणमिति ब्रुवन् । २०२ ।।
उन्मत्तोऽथ स तच्छापाद्गत्वा प्रातर्निजां पुरीम्
प्रविश्य विगतच्छायः शोकदः क्षमापतेरभूत् ॥ २०३ ॥
पुत्रमुन्मादविधुरं योगनन्दो विलोक्य तम् ।
सस्मार मां विपत्प्राप्तः शकटालस्ततोऽवदत् ।। २०४ ॥
देव जीवत्यसौ मन्त्री हितः कात्यायनस्तव ।
श्रुत्वेति नृपतिः पुत्रं प्राहिणोत्तं मदन्तिकम् ।। २०६१
ऋक्षसिंहकथाभिज्ञो मोचयित्वा नृपात्मजम् ।
ततोऽहमगमं द्रष्टुं योनगन्दं ह्रिया नतम् ।। २०६ ॥
कथं ज्ञातस्त्वया शापः पृष्टोऽहमिति भूभुजा ।
यथा ते तिलकं बद्ध्वा बुद्धं चेत्यभ्यधामहम् ।। २०७ ॥
योगनन्दपुत्रशापमोक्षौ ॥ ६॥


स्पष्टदंष्ट्रांशु स्व. २, 'अव' ख.३, खप्स्यामि ख.