पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
काव्यमाला ।

कंचित्कालं भवानास्तां प्रच्छन्नो मद्गृहे सुखम् ।
विशुद्धं भवतो भावं नृपो ज्ञास्यति सानुगः ॥ १८३ ॥
कथं ते राक्षसो मित्रमभवत्कौतुकं मम ।
इत्येवं शकटालेन पृष्टो विश्रब्धमभ्यधाम् ॥ १८४ ॥
नन्दस्य राज्ञो नगरे प्रत्यहं दण्डवासिके ।
भक्षिते रक्षसा पूर्व वृतोऽहं तत्पदे क्रमात् ॥ १८५ ।।
दण्डाधिपत्यमासाद्य राज्ञाहं स्वयमर्थितः ।
रक्षसा कालरूपेण तेनैव निशि संगतः ॥ १८६ ॥
स मामुवाच चकितं बञ्चनायोग्रविग्रहः
रूपेणाभ्यधिका नारी का सत्यं कथ्यतामिति ॥ १८७.॥
या यस्यामिमता लोके सा तस्यानिकरूपिणी ।
स निशाम्येति मैद्वाक्यं संतुष्टो मित्रतामगात् ।। १८८ ॥
इत्युक्त्वा शकटालस्य वचसा प्रयताशयः।
प्रध्यातमात्रों सहसा साक्षाद्नामदर्शयम् ॥ १८९ ॥
सा पूर्जटिजटाजूटमालिकाजननीद माम् ।
समाचावं ययौ तूर्ण हारवल्ली नमश्रियः ॥ १९० ॥
कदाचिथ नन्दस्य हरिगुप्ताभिधः सुतः ।
वनं तुरङ्गामाकृष्टो निस मृगबारमात ॥ १९१ ॥
तस्मिस्तमालगहने गजगण्डालिगण्डलैः
तिलनिरालोके तस्य रात्रिरवर्ततः ॥ १९२ ॥
ततो वनेचरभयादारुह्य तरुमास्थिते ।
राजपुत्रे समभ्यायादृक्षः सिंहभयाद्रुतः ॥ १९३ ॥
तमेव तरुमारा तमुवाच वनेचरः।
न भेत्तव्यं त्वया भ्रातर्वत्स्यामो रजनीमिह ॥. १९४
 


मर्पितः ख. २. १ ख. ३. 'मूच्छितेच 'चिनालोका' स्व